________________
कुत एवं निर्णीतिरिति चेत् तैरेव परीक्षकसत्तमैः शास्त्रशुद्धता-परीक्षापद्धतिः शिक्षिता । यथा सुवर्णस्य शुद्धयशुद्धिनिर्णयः कष-च्छेद-तापरूपत्रिविधपरीक्षाधीनस्तथैव शास्त्रशुद्धिनिर्णयोऽपि । अतः शास्त्राणां त्रिविधपरीक्षा कथं क्रियते, तत्तद्दर्शनानां तत्तन्मन्तव्यानि कथं तत्परीक्षायामुत्तीर्णानुत्तीर्णानि भवन्ति, तत् तैः सम्यक् प्रदर्शितं वर्ततेऽत्र । अस्याऽऽधारेण मध्यस्थः साधकः शास्त्रशुद्धिं निश्चित्य तदनुसारेण प्रवृत्ति कृत्वा मोक्षमार्गे प्रगति कर्तुं क्षमते एव । अत्राऽवान्तरविषयरूपेण सर्वेष्वपि दर्शनेष्वनेकान्तसत्तां प्रदर्श्य तद्व्यापकतां प्रबोध्याऽध्यात्मसाधनायामनेकान्तदृष्टेरनिवार्यताऽप्याविष्कृता वर्तते ग्रन्थकारेण ।
अस्याऽधिकारस्याऽध्ययनेन साधकानां चित्ते सञ्जायते मिथ्यात्वमलस्य हासः, निवर्तते कुतर्कविषमग्रहः, दूरीभवत्यसत्पक्षपातः, प्रहीयते च कदाग्रहजाड्यम् । न केवलं तावत्, शास्त्राभ्यासस्य फलभूतं माध्यस्थ्यमपि प्ररोहति । द्योतते चेदं सर्वमपि श्रीहरिभद्रसूरीणामेषु वचनेषु -
"पक्षपातो न मे वीरे न द्वेष: कपिलादिषु ।
युक्तिमद् वचनं यस्य तस्य कार्यः परिग्रहः ॥" अध्यात्ममार्गे प्रवर्तनायाऽऽवश्यकोऽयं मध्यस्थभावः । माध्यस्थ्यभावितान्तःकरण: साधक एवाऽलं भवति प्रत्येकं मतस्याऽपेक्षामवबुध्य, वास्तविकता-ऽवास्तविकते अवगम्य, व्यापकदर्शनेन सर्वकथनानि विमर्शविषयीकृत्य, ताटस्थ्यं पालयित्वा शास्त्रशुद्धिं निर्णेतुमिति ।
यतश्चैवं तत एव महोपाध्यायैरधिकारप्रान्ते माध्यस्थ्यमहिमा गुम्फितः । तैः स्पष्टमुद्घोषितं यद् ."माध्यस्थ्यमेवं शास्त्रार्थः" [१.७१], यश्च तदात्मीभूतं विदधाति स एव वास्तवतया शास्त्रवेत्ता । तथाहि -
"तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् ।
. मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ॥" [१.७०] ___ माध्यस्थ्यप्राप्त आत्मैव द्रष्टुं शक्नोति यत् सर्वेषु दर्शनेषु मोक्षस्वरूपे तदुपायविषये च विभिन्नेषु मन्तव्येषु सत्स्वपि 'मोक्ष' एव परमार्थेनोद्देशीभूतः । अतः स्याद्वादविभावनेन सम्पादितौदार्यो यो मोक्षोद्देशमपेक्षीकृत्य सर्वदर्शनतुल्यत्वं विभावयति तादृशो माध्यस्थ्योपासक एव शास्त्रविदिति परमार्थः ।
शास्त्रबोधो ज्ञानयोगश्च नैकतत्त्वम् । शास्त्रबोधो यद्यपि साधनामार्गस्य प्रदर्शकः प्रकाशकश्च, तत एवाऽनिवार्यश्चाऽपि; तथापि दिग्दर्शनोत्तरं स सहगामी नैव भवति । साधनामार्गे प्रारम्भादाकैवल्यप्राप्ति पार्श्ववर्ती भवति स्वात्मानुभूति-तद्गुणसंवेदनरूपो ज्ञानयोग एव । अयं ज्ञानयोग एव परमब्रह्मगमकः, न तु शास्त्रकोटेरपि परमब्रह्मगमने सामर्थ्यम् । तदुक्तमत्रैव -
"अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना ।
शास्त्रयुक्तिशतेनाऽपि नैव गम्यं कदाचन ॥" [२.२१] तर्हि शास्त्रज्ञानस्य क इहोपयोगः ? अयमेव यत् शास्त्रयोगः साधनायाः पीठिकामारचयति, पीठिकारचनें सत्येव तदुपरि ज्ञानयोगसौधनिर्माणम् । विना पीठिकां न प्रासादनिर्माणं, प्रासादनिर्माणमन्तरा