________________
१०
ग्रन्थोऽयमधिकारचतुष्के विभक्तः - १. शास्त्रयोगशुद्धिः २. ज्ञानयोगशुद्धिः ३. क्रियायोगशुद्धिः ४. साम्ययोगशुद्धिश्च । सर्वज्ञप्रणीतशुद्धागमाङ्गीकारेण शास्त्रयोगशुद्धिः सम्पद्यते । सैवाऽध्यात्मसाधनाया मूलस्तम्भः । तामाधारीकृत्यैवाऽध्यात्मसाधनाया: प्रारम्भः । ज्ञानयोग-क्रियायोगौ साधनाया एव विकासपथः । साम्ययोगः पुनः साधनाया एव पराकाष्ठा, या साधकाय सिद्धिं प्रददाति । इत्यनेन कारणेन ग्रन्थकृद्भिरयं क्रमश्चित इति स्पष्टं प्रतिभासते ।
तत्राऽऽदावत्राऽध्यात्मपदार्थो वर्णितः । यद्यपि सेयमध्यात्मपदार्थवर्णनाऽध्यात्मसारग्रन्थेऽनेनैव ग्रन्थकारेणैवं विहिताऽस्ति -
"गतमोहाधिकाराणामात्मानमधिकृत्य या ।
प्रवर्तते क्रिया शुद्धा तदध्यात्म जगुजिनाः ॥" [२.२] इत्यादि । तथापि तत्राऽध्यात्मस्य प्रामाण्यपरिकलितं यल्लक्षणं दर्शितं तदेव नयवादाश्रयणेन रूढ्यर्थ-योगार्थावपेक्ष्य द्विधा विभज्याऽस्मिन् प्रकरण उपवर्णितमस्ति । तदनु महोपाध्यायैरध्यात्माधिकारित्वं केषुचिदेव सत्त्वेषु सम्भवति, न सर्वेषु इति स्पष्टं निगदितम् । अध्यात्मभाजनत्वस्य . सम्पत्तये योग्यतात्रयमनिवार्यमिति तेषामभिप्रायः । तत्त्रयमित्थम् - १. दुर्नयविभावनोत्थस्य कदाग्रहस्य निवृत्तिः २. आत्मस्वरूपे विश्रान्ति प्रति साम्मुख्यम् ३. स्याद्वादप्रकाशोपलब्ध्या स्फुटालोकनक्षमता च । विपरीताभिनिवेशसंमूढो जातितुल्ययुक्तिजाले अटाट्याऽनर्थमेवाऽऽसाद्याऽऽत्मानमवसादयतीत्यत्राऽऽशय : उपलक्ष्यते । अतः परं शास्त्रयोगशुद्धिप्ररूपणमारभ्यते ।
अध्यात्ममार्गस्याऽतीन्द्रियत्वादतीन्द्रियज्ञानिनां मार्गदर्शनादृते सामान्यसाधकानां कृतेऽध्यात्ममार्गे प्रवृत्तिः प्रगतिर्वा दुःशकैव । तत्रापि तादृशां ज्ञानवतां सिद्धानामुपस्थितौ तेषां साक्षादुपदेशेमाऽनुगृहीताः साधका: साधनायै प्रभवन्ति । परं तेषां क्षरदेहेनाऽनुपस्थितौ साधनामार्गे प्रवृत्त्यर्थं तेषामक्षरदेहः अर्थात् तत्प्रणीतशास्त्रकदम्बकमेव साधकानां शरणम् ।
__ किन्त्वत्रापि बढ्यः समस्याः समुपतिष्ठन्ति । यतोऽध्यात्मतत्त्वं तु सुतरां गहनम् । तत्रापि तत्प्रतिपादकेषु शास्त्रेषु नैकवाक्यता, प्रत्युत विविधा वचनरचना, विभिन्नानि मन्तव्यानि, सङ्ख्यातीता मतभेदाः, अगण्या विरोधाः, कुरुक्षेत्रस्मारकाणि खण्डनमण्डनानि च । कुत्र विश्वासो निधेय इति निर्णयस्तु दूरे तिष्ठतु, तस्य चिन्तनमपि श्वासमवरुणद्धि । किं कुर्मः ? किं वा वदामः ?
आसां सर्वासां समस्यानां समाधानमेव शास्त्रयोगशुद्ध्यधिकारः । तत्राऽऽदावेव ग्रन्थकृद्भिनिर्णयवचनं निष्टङ्कितम् -
"शासनात् त्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते ।
वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् ।।" [१.१२] । यदात्मानं नियमयति दोषेभ्यश्चाऽऽत्मस्वभावं त्रायते तदेव शास्त्रं बुधाभिमतम् । तत्तु वीतरागस्य सर्वज्ञस्य वचनमेव भवितुमर्हति, नाऽन्यस्याऽसर्वज्ञस्य रागद्वेषकालुष्यग्रस्तस्य वेति ।