________________
यथाक्रमं रतिमरति चोपयान्ति । ततो रागद्वेषौ, तस्मादातरौद्रध्याने, तन्निमित्तकः कर्मबन्धः, तज्जन्यश्च क्लेश इत्यशुभपरम्परा प्रवर्तते । इदं सर्वं मनसिकृत्य लोकव्यवहारमज्ञानमूलकमुपेक्ष्य प्रोचुर्जानिनः "पराधीन सपने सुख नाही" "सर्वं परवशं दुःखम्" चेति । सर्वमपि पौद्गलिकं वस्तुजातं यत आत्मनो व्यतिरिक्तं ततस्तत् 'पर'मेव । अतस्तस्मिन् मोहः, तद्वशीभूतं मानसं, तत्पारतन्त्र्येण वर्तनं, तदपेक्षणं च दुःखमेवेति तदाशयः ।
आत्मसुखं तु स्वाधीनम्, पौद्गलिकसंयोगवियोगानपेक्षित्वादानुकूल्य-प्रातिकूल्ययोस्तुल्यवृत्तित्वात् परमुखप्रेक्षित्वाभावात् स्वभावरमणतात्मकत्वाच्च । तदनुभवोऽप्यवर्णनीयो वैषयिकसुखे तुच्छत्वबुद्धिसम्पादकः । तदुक्तमस्मिन्नेव प्रकरणे -
"ज्ञानमग्नस्य यच्छर्म, तद् वक्तुं नैव पार्यते ।
नोपमेयं प्रियाश्लेषै-र्नाऽपि तच्चन्दनद्रवैः ॥" (२.१३) स्ववशत्वमेव पारमार्थ्येन सत्यं शिवं सुन्दरमित्यानन्दस्वरूपमितीह नैश्चयिक्यभिसन्धिः । आत्मस्थस्याऽस्य परमानन्दस्याऽऽत्मनि प्रकटीकरणायाऽऽत्मना विधीयमानः पुरुषार्थ एव 'अध्यात्मम्' ।
परमकृपालुभिरर्हद्भिर्जगतः श्रेयोऽर्थमध्यात्मपथप्रकाशक उपदेशः प्रदत्तः । सोऽयमुपदेश आगमेषु सङ्कलितो जातः । तमनुसृत्याऽवलम्ब्यं च परमयोगिभिः श्रीहरिभद्रसूरि-श्रीहेमचन्द्राचार्य-श्रीयशो· विजयोपाध्यायादिभिरध्यात्मसाधना विहिता । ततश्च तैरागमाभ्यासेन स्वयंस्फूर्तप्रज्ञया स्वानुभूत्या च यदध्यात्मतत्त्वंमात्मसात्कृतं तस्याऽधिकारिजीवेषु विनियोगार्थं निष्कारणवत्सलैस्तैस्तत्तद्ग्रन्थेषु तद् विन्यस्तम् । ग्रन्थानामेषां श्रवणमननादिभिरध्यात्मतत्त्वस्य बोधः संपद्यते, तदनुसरणेन च स्वात्मनि यथार्थस्याऽध्यात्मतत्त्वस्य प्रादुर्भावोऽपि । इदमेवैषां ग्रन्थानां माहात्म्यं यदेतेऽध्यात्ममाध्यमेनाऽऽत्मने पारमार्थिकीं शान्तिमविचलितस्वभावां स्वस्थतामनुत्तरां सुखानुभूति चोपहारीकुर्वन्ति । अत एवाऽध्यात्मरसिकानां परमप्रीतिसम्पादकं भवत्यध्यात्मशास्त्रश्रवणादि । तदुक्तम् -
"कान्ताधरसुधास्वादाद् यूनां यज्जायते सुखम् ।
बिन्दुः पार्वे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥" [अध्यात्मसार:-१/९] ... तत्र श्रीमद्भिर्यशोविजयोपाध्यायैरध्यात्मसाधनाया मार्मिकनिरूपणकारि ग्रन्थद्वयं प्रणीतम् - अध्यात्मसारः अध्यात्मोपनिषच्च । प्रस्तुतप्रकाशनेऽध्यात्मोपनिषत्प्रकरणं तदाशयविबोधिनी परमगुरुश्रीविजयनेमिसूरिप्रणीता वृत्तिश्च सम्पादिते स्तः ।
- उपनिषच्छब्देन मूलतो गूढान्तिमरहस्यभूतं शास्त्रतत्त्वं तन्नाम व्याचिख्यासितग्रन्थप्रतिपाद्यवस्तुविषया विद्योच्यते । परं कार्यकारणभावमूलकमुपचारमपेक्ष्य 'आयुर्वैघृत'मित्यादिवत् प्रतिपादको ग्रन्थोऽपि 'उपनिषत्'शब्दवाच्यो भवति । ततोऽध्यात्मविषयकगूढचरमरहस्यार्थः प्रकृतग्रन्थे प्रतिपिपादयिषित इत्यवधार्यते ।