________________
२७.
'मणिप्रभा'ब्याख्योपेतः मार्तण्डो यमुनाकृतान्तजनकः प्रद्योतनस्तापनः ॥६॥ ब्रनो हंसश्चित्रभानुर्विवस्वान् सूरस्त्वष्टा द्वादशात्मा च हेलिः। . मित्रो ध्वान्तारातिरब्जांशुहस्तश्चक्राब्जाहर्बान्धवः सप्तसप्तिः ॥ १० ॥ दिवादिनाहार्दिवसप्रभाविभाभासः करः स्यान्मिहिरो विरोचनः। ग्रहाब्जिनीगोद्यपतिर्विकर्तनो हरिः शुचीनौ गगनाद्ध्वजाध्वगौ॥ ११ ॥
हरिदश्वो जगत्कर्मसाक्षी भास्वान् विभावसुः । त्रयीतनुर्जगच्चक्षुस्तपनोऽरुणसारथिः
॥ १२ ॥ पतङ्गः, खगः, मार्ताण्डः, यमुनाजनकः, कृतान्तजनकः ( यौ०-कालिन्दीसूः, यमसूः,..."), प्रद्योतनः, तापनः, बध्नः, हंसः, चित्रभानुः, विवस्वान् (-स्वत् ), सूरः (+ शूरः ), त्वष्टा (-ष्ट ), द्वादशात्मा (-त्मन् ), हेलिः, मित्रः, ध्वान्तारातिः ( यौ०-तिमिरारि:,......"), अब्जहस्त:, अंशुहस्त: ( यौ०-पद्मपाणिः, गभस्तिपाणि:,......"), चक्रबान्धवः, अब्जबान्धवः, अहर्बान्धवः ( यौ०चक्रवाकबन्धुः, पद्मबन्धुः, दिनबन्धु:,......"), सप्तसप्तिः (यौ०-सप्ताश्वः, विषमाश्वः, ...."") दिवाकरः, दिनकरः, अहस्करः, दिवसकरः, प्रभाकरः, विभाकरः, भास्करः ( यौ०-वासरकृत् , दिनप्रणीः, दिनकृत्,..."), मिहिर: (+ मिहरः, महिरः ), विरोचनः, ग्रहपतिः, अब्जिनीपतिः, गोपतिः, द्यपतिः ( यौ०-ग्रहेशः, पद्मिनीशः, त्विषामीशः, दिनेशः,......"), विकर्तनः, हरिः, शुचिः, इनः, गगनध्वजः, गगनाध्वगः (यौ०-नभःकेतनः, नभःपान्थः,....."), हरिदश्वः, जगत्साक्षी, कर्मसाक्षी ( २ -क्षिन् ), भास्वान् (-स्वत् , यौ० --अंशुमान्-मत् , अंशुमाली -लिन् ; ...""), विभावसुः, त्रयीतनुः, जगच्चक्षुः (-तुस् ), तपनः, अरुणसारथिः ।। . विमर्श :-ऋतुभेदसे प्रत्येक मासमें सूर्य-किरणें घटती-बढ़ती हैं, अत एव. 'पूषति वर्द्धत'इस विग्रहसे सूर्यका नाम 'पूषा' होता है । 'व्याडि'के मतमें सूर्य-रश्मियोंकी संख्यामें वक्ष्यमाण विभिन्नता होती है । यथा-चैत्रमें १२००, वैशाखमें १३००, ज्येष्ठमें १४००, अाषाढमें १५०० श्रावण तथा भाद्रपदमें १४००-१४००, अाश्विनमें १६००, कार्तिकमें ११००, अगहनमें १०५०, पौष में १०००, माघमें ११०० और फाल्गुनमें १०५० सूर्यकी किरणें होती है * ॥ * यथाऽऽह व्याडि: -
"ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः । शतानि द्वादश मधौ त्रयोदशैव माधवे ॥ चतुर्दश पुनयेष्ठे नभोनभस्ययोस्तथा . । पञ्चदशैव त्वाषाढे षोडशैव तथाऽऽश्विने ॥ कार्तिकके त्वेकादश शतान्येवं तपस्यपि ।। मार्गे तु दश सार्दानि शतान्येवं च फाल्गुने । पोष एव परं मासि सहसं किरणा रवः ॥" इति ॥