________________
७०
अभिधानचिन्तामणिः १षडङ्गी वेदाश्चत्वारो मीमांसाऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणश्च विद्या एताश्चतुर्दश ॥ १६७ ।।
१. 'विद्याएँ' १४ हैं-शिक्षा आदि (२।१६४ ) ६ वेदाङ्ग, ऋग्वेद आदि (१ ऋग्वेद, यजुर्वेद, ३ सामवेद और ४ अथर्ववेद ) ४ वेद, मीमांसा, आन्वीक्षिकी, धर्मशास्त्र और पुराण ॥
शृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ।। सर्गोऽप्यथ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ।। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया । अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः । भूतमात्रेन्द्रियार्थानां संभवः सर्ग उच्यते ।। पुरुषानुगृहीतानामेतेषां . वासनामयः । विसर्गोऽयं समाहारो बीबाद बीजं चराचरम् ।। वृत्तिर्भूतानि भूतानां चराणामचराणि च । कृतास्वेन नृणां तत्र कामाच्चोदनयाऽपि वा ।। रक्षा च्युतावतारेहा विश्वस्यानुयुगे युगे । तिर्यङ्मय॑र्षिदेवेषु हन्यन्ते . यैस्त्रयीद्विषः । मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वरः । ऋषयोऽशावताराश्च हरेः षडिवधमुच्यते ।। राज्ञां ब्रह्मप्रसूतानां वंशस्त्रकालिकोऽन्वयः। वंशानुचरितं तेषां वृत्तं वंशधराश्च ये ।। नैमित्तिकः प्राकृतिकस्तेषामात्यन्तिको लयः। संस्थेति कविभिः प्रोक्ता चतुर्धाऽस्य स्वभावतः ॥ हेतुर्जीवोऽस्य सर्गादेरविद्याकमकारक। यं चानुशायनं प्राहुरव्याकृतमुतापरे । व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रयः ॥ पदार्थेषु यथाद्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम् ।। विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेन वा तदात्मानां वेदेहाया निवर्तते ।।