________________
५६
अभिधानचिन्तामणिः
मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः । पण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालहगेकपादः ॥ ११० ॥ मृडोsहासी घनवाहनोहिर्बुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुपास्थिमाली ॥ १११ ॥ स्याद्वयोमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ।। ११२ ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः। पिनाकशूलखट्वाङ्गगङ्गाऽहीन्दुकपालभृत् ॥ ११३ ॥ गजपूषपुरानङ्गकालान्धकमखासुहृत्
1
श्रीकण्ठः, उग्र:, धूर्जटिः, भीमः, भर्गः, मृत्युञ्जयः, पञ्चमुखः, अष्टमूर्तिः, श्मशानवेश्मा (-श्मन् ), गिरिश:, गिरीशः, षण्टः, कपर्दी (-दिन ), ईश्वरः, ऊर्ध्वलिङ्गः, एकदृक्, त्रिकू, भालदृक् ( ३- दृश् ), एकपात् (पाद), मृड:, अट्टहासी ( - सिन्), घनवाहनः, अहिर्बुध्नः, विरूपाक्षः, विषान्तकः, महाव्रती ( - तिन् ), वह्निरेताः, हिरण्यरेताः (२ - तस् ), शिवः, अस्थिधन्वा (वन् ), पुरुषास्थिमाली (-लिन् ), व्योमकेशः, शिपिविष्टः, भैरवः, दिग्वासाः (दिग म्बर: ), कृत्तिवासाः (२ - सस ), भवः, नीललोहितः, सर्वशः, नाट्यप्रियः, खण्डपशु:, महादेव:, महानटः, महेश्वरः, हरः, पशुपतिः, प्रमथपतिः, भूतपतिः, उमापतिः, पिङ्गजट:, पिङ्गेक्षणः, पिनाकभृत्, शूलभृत् 'खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत्, इन्दुभृत्, कपालभृत्, गजासुहृत् पूषासुहृत्, पुरा सुहृत्, अनङ्गासुहृत्, कालासुहृत्, अन्धकासुहृत्, मखा सुहृत्, ( ७ - हृद् । यौ० - गजासुरद्वेषी (-षिन् ), पूषदन्तहरः, त्रिपुरान्तकः, कामध्वंसी (-सिन् ), यमजित्, अन्धकारिः, दक्षाध्वरध्वंसकः, गजारिः, गजान्तकृत्, गजान्तकः, गजरिपुः,
' ) ॥ शेषश्चाश - शङ्करे नन्दिवर्धनः ।
बहुरूपः सुप्रसादो मिहिराणोऽपराजितः || कङ्कटको गुह्यगुरुर्भ नेत्रान्तकः खरुः । परिणाहो दशबाहुः सुभगोऽनेकलोचनः ॥ गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः । कूटकृन्मन्दरमणिर्नवशक्तिर्महाम्बकः
कोणवादी शैलधन्वा विशालाक्षो ऽक्षतस्वनः । उन्मत्तवेषः शत्ररः सिताङ्गो धर्मवाहनः ॥ महाकान्त वह्निनेत्रः स्त्रीदेहार्धो नृवेष्टनः । महानादो नराधारो भूरिरेकादशोत्तमः ॥