________________
(४३५)
।।८७७॥
बलिचञ्चासुरास्तावद् ज्ञात्वैतत्कुपिता भृशम् । तामलेर्यत्र मृतकं , तत्रागत्यातिरोषतः ।।८७४॥ शुम्बेन बद्धा वामांहि, निष्ठीवन्तो मुखेऽसकृत् । ताम्रलिप्त्यां भ्रमयन्तौ, मृतकं तत्रिकादिषु ।।८७५॥ एवमुद्घोषयामासुस्तामलिस्तापसाधमः । धूर्तो मूर्तो दम्भ इव, पश्यतैव विडम्ब्यते ॥८७६॥ ईशानेन्द्र तयोत्त्पन्नोऽप्यसौ नः किं करिष्यति । पुरतोऽस्माकमीशानः, किमसौ तापसब्रुवः ।।८७७॥ असुरैः क्रियमाणां स्वस्वामिदेहकदर्थनाम् । द्दष्टवेशानुसुरा रूष्टाः स्वामिने तदजिज्ञपन् ।।८७८॥ ईशानेन्द्रोऽप्युपपातः शय्यावस्थित एव ताम् । बलिचञ्चाराजधानी, द्दशाऽपश्यत्सरोषया ।।८७६ ॥ तस्य दिव्यप्रभावेण, बलिचञ्चाभितोऽभवत् । कीर्णाङ्गिरेव तप्तायः शिलामयीव दुस्सहा ॥८८०॥ असुरास्तेऽथ दवयुव्यथार्ताः स्थातुमक्षमाः । मीनाइवस्थले दीनाः, कृच्छ्रात्कण्ठगतासवः ॥८८१॥ इतस्ततः प्रधावन्तः कान्दिशीकाः सुरेश्वरम् । संभूय क्षययामासुरष्टाङ्गस्पृष्ट भूतलाः ॥८८२॥ स्वामिन्नज्ञान तोऽस्माभिरपराद्धोऽसिदुईशैः । नैवं पुनः करिष्यामः, क्षमस्व स्मस्तवानुगा ॥८८३॥ पुनः पुनर्विलपतो दृष्टवैतान् करुणस्वरम् । तां शक्तिं संजहारेन्द्रो, दयास्तेऽप्यधुः सुखम् ॥८८४॥
उस समय बलि चंचा के असुर देवता तामिल को ईशानेन्द्र रूप में उत्पन्न हुए जानकर अत्यन्त क्रोधित हुए और जंहा तामिल का मुरदा पड़ा था वहां आकर अतिरोष पूर्वक शुम्ब से बायें पैर को बाँधकर बारम्बार थूकते उन्होंने उस मुरदे को तामलिप्तीपुर के चारों चौक में घुमाया और इस तरह उद्घोषणा की कि - यह