________________
समणसुत्तं १९८. सुहपरिणामो पुण्णं, असुहो पाव त्ति भणियमन्नेसु ।
परिणामो णनगदो, दुक्खक्खयकारणं समये ॥७॥ शुभपरिणामः पुण्यं अशुभः पापमिति भणितमन्येषु ।
परिणामो नान्यगतो, दुःखक्षयकारणं समये ॥७॥ १९९. पुण्णं पि जो समिच्छदि, संसारो तेण ईहिदो होदि ।
पुण्णं सुगईहे,, पुण्णखएणेव णिव्वाणं ॥८॥ पुण्यमपि यः समिच्छति, संसारः तेन ईहितः भवति ।
पुण्यं सुगतिहेतुः, पुण्यक्षयेण एव निर्वाणम् ॥८॥ २००. कम्ममसुहं कुसील, सुहकम्मं चावि जाण व सुसीलं । .
कह तं होदि सुसीलं, जं संसारं पवेसेदि ॥९॥ . कर्म अशुभं कुशीलं, शुभकर्म चापि जानीहि वा सुशीलम् ।।
कथं तद् भवति सुशीलं, यत् . संसारं प्रवेशयति ॥९॥ २०१. सोवणियं पि णियलं, बंधदि कालायसं पि जह पुरिसं ।
बंधदि एवं जीवं, सुहमसुहं वा कदं कम्भं ॥१०॥ सौर्णिकमपि निगलं, बध्नाति कालायसमपि यथा पुरुषम् ।
बध्नात्येवं जीवं, शुभमशुभं वा कृतं कर्म ॥१०॥ २०२. तम्हा दु कुसीलेहि य, रायं मा कुणह मा व संसग्गं ।
साहीणो हि विणासो, कुसीलसंसग्गरायण ॥११॥ तस्मात्तु कुशीलैश्च, रागं मा कुरुत मा वा संसर्गम् ।
स्वाधीनो हि विनाशः कुशीलसंसर्गरागेण ॥११॥ २०३. वरं वयतवेहि सग्गो, मा दुक्खं होउ णिरइ इयरेहिं ।
छायातवट्ठियाणं, पडिवालंताण गुरुभेयं ॥१२॥ वरं व्रततपोभिः स्वर्गः, मा दुःखं भवतु निरये इतरः ।।
छायाऽऽतपस्थितानां, प्रतिपालयतां गुरुभेदः ॥१२॥ २०४. खयरामरमणुय-करंजलि-मालाहिं च संथुया विउला ।
चक्कहररायलच्छी, लब्भई बोही ण भ व्वणुआ ॥१३॥ च रामरमनुज-कराञ्जलि-मालाभिश्च संस्तुता विपुला । चक्रधरराजलक्ष्मीः , लभ्यते बोधिः न भव्यनुता ॥१३॥