________________
१४४
समणसुत्तं ४५२. ठाणा वीरासणाईया, जीवस्स उ सुहावहा ।
उग्गा जहा धरिज्जंति, कायकिलेसं तमाहियं ॥१४॥ स्थानानि वीरासनादीनि, जीवस्य तु सुखावहानि ।
उग्राणि यथा धार्यन्ते, कायक्लेशः स आख्यातः ॥१४॥ ४५३. सुहेण भाविदं गाणं, दुहे जादे विणस्सदि ।
तम्हा जहाबलं जोई, अप्पा दुक्खेहि भावए ॥१५॥ सुखेन भावितं ज्ञानं, दुःखे जाते विनश्यति ।...
तस्मात् यथाबलं योगी, आत्मानं दुःखैः भावयेत् ॥१५॥ ४५४-४५५. ण दुक्खं ण सुखं वा वि, जहाहेत तिगिच्छिति। .
तिगिच्छिए सुजुत्तस्स, दुक्खं वा जइ वा सुहं ॥१६॥ मोहक्खए उ जुत्तस्स, दुक्खं वा जइ वा मुंह। मोहक्खए जहाहेउ, न दुक्खं न वि वा सुहं ॥१७॥ न दु:खं न सुखं वाऽपि यथाहेतु चिकित्सति। चिकित्सते सुयुक्तस्य दुःखं वा यदि वा सुखम् ॥१६॥ मोहक्षये तु युक्तस्य, दुःखं वा यदि वा सुखम् ।
मोहक्षये यथाहेतु, न दुःखं नाऽपि वा. सुखम् ॥१७॥ (आ) आभ्यन्तरतप ४५६. पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झावो ।
झाणं च विउस्सग्गो, एसो अभितरो तवो ॥१८॥ प्रायश्चित्तं विनयः, वैयावृत्य तथैव स्वाध्यायः ।।
ध्यानं च व्युत्सर्गः, एतदाभ्यन्तरं तपः ॥१८॥ ४५७. वद-समिदि-सोल-संजम-परिणामो करणणिग्गहो भावो ।
सो हवदि पायच्छित्तं, अणवरयं चेव कायव्वो ॥१९॥ व्रत-समिति-शील-संयम-परिणामः करणनिग्रहो भावः ।
स भवति प्रायश्चित्तम्, अनवरतं चैव कर्तव्यः ॥१९॥ ४५८. कोहादि-सगब्भाव-क्खयपहुदि-भावणाए णिग्गहणं ।
पायच्छित्तं भणिदं, णियगुणचिंता य णिच्छयदो ॥२०॥ क्रोधादि-स्वकीयभाव-क्षयप्रभृति-भावनायां निग्रहणम् । प्रायश्चित्तं भणितं, निजगुणचिन्ता च निश्चयतः ॥२०॥