________________
२०. सम्यक्चारित्रसूत्र
(अ) व्यवहारचारित्र
२६२. ववहारणयचरिते, ववहारणयस्स होदि तवचरणं । णिच्छयणयचारित्ते, तवचरणं होदि णिच्छयदो ॥ १ ॥ व्यवहारनयचरित्रे, व्यवहारनयस्य भवति तपश्चरणम् । निश्चयनयचारित्रे, तपश्चरणं भवति निश्चयतः ॥ १ ॥ २६३. असुहादो विणिवित्ती, सुहे पवित्ती य जाण चारितं ।
वदसमिदिगुत्तिरूवं ववहारणया दु जिणभणियं ॥ २ ॥ अशुभाद्विनिवृत्तिः, शुभे प्रवृत्तिश्च जानीहि चारित्रम् । व्रतसमितिगुप्तिरूपं, व्यवहारनयात् तु जिनभणितम् ॥२॥ २६४. सुयनाणम्मि वि जीवो, वट्टतो सो न पाउणति मोक्खं । जो तवसंजममइए, जोगे न चएइ वोढुं जें ॥३॥ श्रुतज्ञानेऽपि जीवो, वर्तमानः स न प्राप्नोति मोक्षम् । यस्तपः संयममयान्, योगान् न शक्नोति वोढुम् || ३ || २६५. सक्किरियाविरहातो, इच्छितसंपावयं ण नाणं ति । मग्गण्णू वाऽचेट्ठो, वातविहीणोऽधवा पोतो ॥४॥ सत्क्रियाविरहात् ईप्सित संप्रापकं न ज्ञानमिति । मार्गज्ञो वाऽचेष्टो, वातविहीनोऽथवा पोतः ॥४॥
२६६. सुबहु पि सुयमहीयं किं काहिइ चरणविप्पहीणस्स । अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि ॥५॥ सुबह्वपि श्रुतमधीतं, किं करिष्यति चरणविप्रहीणस्य । अन्धस्य यथा प्रदीप्ता, दीपशतसहस्रकोटिरपि ॥ ५ ॥
२६७. थोवम्मि सिक्खिदे जिगह, बहुसुदं जो चरित्तसंपुण्णो । जो पुण चरितहीणो, किं तस्स सुदेण बहुएण ॥ ६ ॥ स्तोके शिक्षिते जयति, बहुश्रुतं यश्चारित्रसम्पूर्णः । यः पुनश्चारित्रहीनः, किं तस्य श्रुतेन बहुकेन ॥ ६ ॥
- ८६
-