________________
धैर्य यत्र वरीवृतीति सततं लोकोत्तरं सद्गुरी, चित्तक्षोभकरेषु सत्स्वपि मनो नायाति चाञ्चल्यताम्। ध्यानारुडमना विपश्यति सदा स्वात्मानमेवाचलं, विद्याढ्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् ।६। विश्वेषामतिमण्डनं सुमनसां चित्ताम्बुजोल्लासनं, भव्याभव्यजन प्रबोधपटुतोद्भूताच्छ कीर्त्तिव्रजम्। दीनानाथ जनोपकारकुशलं व्याख्यानवाचस्पति विद्याड्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् ।७। भास्वद्धासुरसगुणाकर जगत्पोपुज्यमानस्फुर, च्छीमद् गौरवपाद प्मयुगल ध्यान प्रसन्नात्मनाम्। युक्त्या खण्डयतामनल्पकुधियां वाचः सभायां विदां, विद्याडयं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् ।।
श्रीमद्यतीन्द्र विजयप्रभु सद्गुरुणां, स्थाद्वादपद्मपरिबोधन भास्कराणाम्। विद्याविवेकवर शिष्यगणैः प्रणुन्न, श्वक्रेऽष्टकं श्रुतिसुखं बजनाथमिश्रः ॥९॥
पं. ब्रजनाथ मिश्र शास्त्री
(१९)