________________
प्रथमं श्रीयतीन्द्रविजयाष्टकम् ।
यस्यास्ये शरदिन्दुसुन्दरतरे वाणी नरीनृत्यते, वादीन्द्रानपि सङ्गतानधिसभं युक्त्या जयंती क्षणात् । विद्वद्वृन्दमनः सुतोषजननी संछेदिनी संशयान्, विद्याढ्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् | १ | द्राक्षापाकसमानतामुपगता यद्देशना त्यद्भुता, वर्षन्ती वचनामृतं सुमधुरं धर्म्यं पयोवाहवत् ।
सद्युक्तिः श्रुतिसेविताऽपरिमिता पापापहारक्षमा, विद्याढ्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् | २ | सर्वाङ्गे कमनीयतां विदधतं सौन्दर्यरत्नाकरं, भास्वन्तं गुरुवर्चसा सुयशसा प्रद्योतिताशं परम् । साक्षात्काममिवां विजयिनं लोकानुकम्पाकरं, विद्याढ्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् । ३ । यावञ्जीवसुसंयमव्रतपरं षट्शास्त्र चर्चाकरं, . श्रामण्याऽखिलसद्गुणातुलमहारत्नश्रिया मण्डितम् । निर्धूताखिलकर्मसन्ततिममुं वैज्ञानिकानां वरं, विद्याढयं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् ॥ ४॥ क्षान्तिर्यस्य महीयसी भुवितले विभ्राजते शाश्वती, हेतौ सत्यपि जायते नहि मनाक् कोपोद्भवो जातुचित् । धन्यं धन्यजनैः प्रशस्यमतुलं सत्कीर्तिमन्तं विभुं विद्याढ्यं तमुपास्महे सविजयं श्रीमद् यतीन्द्राभिधम् ॥५॥
. घयन्तान्वयतात्पर्येण षष्ठया: साधुत्वम्, धात्वर्थान्वयतात्पर्येण द्वितीया साधीयसि, इति विवेकः ।
(१८)