SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरी यत्रापि तत्क्रियायोगः तदानों नोपलभ्यते । तत्रापि योप्यतां दृष्ट्वा शब्दं तज्ज्ञाः प्रयुंजते । न हि 'पाचकः' 'लावकः' इति प्रवृत्तक्रिय एवोच्यते, अन्यदाऽपि तथा तथा व्यवहारात् || *अन्ये पूर्वापरीभूतस्वभावपरिहारतः । - सिद्धरूपतया प्राहुः शब्दाः पाकादयः क्रियाम् ॥ .. तदुक्तम्-'कृदभिहितो भावः द्रव्यपद्भवति, क्रियावच्च' इति । न चैकान्तेन परिहतसाध्यमानावस्थैव तैः क्रियोच्यते ; यत आह 'क्रियावच्च" इति ॥ [प्रवृत्तिनिमित्ताभिधेययोर्भेदः] अन्यत्प्रवृत्तौ शब्दस्य निमित्तमवगम्यते। , अभिधेयं तु तस्यान्यत् इत्ययं प्रथमः क्रमः ॥ पाचकादिब्शदानां हि 'प्रवृत्तौ निमित्तं क्रिया। अभिधेयास्तु कादयः ॥ क्वचित्पनर्यदेपास्य स्यात् प्रवृत्तिनिबन्धनम् । तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव ॥ इत्येवं लेशतस्तावत् नाम्नां वृत्तिरुदाहृता। आख्यातानां तु वाच्योऽर्थः पुरस्ताच्चर्चयिष्यते । * अन्ये पाकादयः शब्दा इत्यन्वयः।। (प्र. सं p.-50) * चकारात् द्रव्यवदित्यस्य ग्रहणम् ॥ 1 प्रवृत्तिनिमित्तं-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy