SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 65 पञ्चममाह्निकम् [ गुणवाचिशब्देषु विशेषः] ___ *गुणशब्दास्तु केचित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति। केचित्तु गुणमभिधाय 'द्रव्यमप्याक्षिपन्ति, तत्सामानाधिकरण्य प्रयोगदर्शनात् ॥ गुण कनियतास्तावत् गन्धरूपरसादयः। गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः ।। तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते । न गन्धः पद्म इत्यस्ति सामानाधिकरण्यधीः ।। .न ह्येवं वक्तारो भवन्ति चन्दनं गन्धः' 'आनं रसः' इति । . गुणं शुक्लादिशब्दास्तु कथयन्तस्तदाश्रयम् । द्रव्यमप्याक्षिपन्त्येव 'िशुक्लोंऽशुरिति दर्शनात् ॥ . शुक्लादयोऽपि शब्दाः गुणपदोपबन्धसंकोचितशक्तयः भावप्रत्ययान्तपदवत् गुणमात्राभिधान एव पर्यवस्यन्ति–'शुक्लो 'गुणोऽश्वः' 'शौक्लयमश्वः' इति सामानाधिकण्यप्रयोगादर्शनात् ॥ [क्रियावाचिशब्दानां शक्तिप्रकारः] ... क्रियाशब्दाश्च विविधा भवन्ति-केचित् कर्तरि कर्मणि करणे वा प्रयुज्यन्ते, केचिद्भावमात्रवचना एव। कादिवाचिनस्तावन्निमित्तीकृत्य कांचन क्रियां तद्योगिद्रव्ये वर्तन्ते, पाचकादयः ॥ * नीलादिपदानि गुणवाचीनि, गुणिनि लाक्षणिकानि । रूप-गन्धादिपदानि तु केवलगुणवाचकानि॥ + अंशुः-अंशुकः,तन्त्ववयवः, सूर्यो वा॥ . पद्म-ख, ओदन-ख, शुक्ले शुक्ल इति-ख 1 द्रव्यमा-ख. 'गुणोऽश्वे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy