SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरी प्रतिषेधोऽवगम्यते। क्वचिद्व्यक्तेः प्राधान्यं, जातेरङगभावः-यथा 'गां मुंच' 'गां बधान' इति नियतां कांचिव्यक्तिमुद्दिश्य प्रयुज्यते। क्यचिदाकृतः प्राधान्यं, व्यक्तरङगभावः, जाति स्त्येव-यथा 'पिष्टमय्यो गावः क्रियन्ताम्' इति सन्निवेशचिकीर्षया प्रयोग इति । सर्वसर्वगतत्वेऽपि जाते *मृदगवादौ विशिष्टा वृत्तिरित्युक्तम् । तदेवं गवाश्वादिशब्दानां तावत् तद्वानर्थ इति सिद्धम् ॥ [जातिरहितपदार्थस्थले गतिप्रदर्शनम् ] येषामर्थेषु सामान्यं न संभवति, तैः पुनः । उच्यते केवला व्यक्तिराकाशादिपदैरिव ॥ एवं डित्यादिशब्दानां संज्ञात्वविवितात्मनाम् । अभिधेयस्य सामान्यशून्यत्वाद्व्यक्ति वाचिता ॥ अत एव हि द्रव्यशब्दा इत्युच्यन्ते ॥ ये पुनः कल्पितानेकभेदवृत्ति प्रचक्षते । वाच्यं तत्रापि सामान्यं 'अतीव ग्राहिकास्तु ते ॥ न हि डित्थत्वसामान्यं दृश्यते गगनत्ववत् । कल्पनायास्तु नो भूमिः काचिदस्ति विपश्चिताम् ।। * मृदा निर्मितगोप्रतिमादौ ।। | कल्पिता:-अनुमिताः, भेदाः-व्यक्तिभेदाः । कल्पान्तरादिगगनव्यक्ती. रादाय गगनत्वादीनामपि सामान्यत्वसंभवेऽपि डित्थादौ न तथेत्याशयः ॥ ये प्रचक्षते ते अतीव ग्राहिकाः इति नर्भोक्तिः॥ 1 प्रतिषेधो-ख, वाच्यता-क, दृश्यते गगनत्ववत्-ग.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy