SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 63 पञ्चममाह्निकम् निवेशः' इति तद्वद्वाच्यत्वपक्षसाक्षीण्यक्षराणि। सामानाधिकरण्यं च तत्रैवोपपद्यत इत्युक्तमेतत् । तस्मात् *यथा विध्यन्तपर्यन्तो वाक्यव्यावार 'इष्यते। तथैव व्यक्तिपर्यन्तः शब्दव्यापार इष्यताम् ॥ अनुपरत व्यापारे शब्दे तदवगमात् ॥ [अन्विताभिधानवादे व्यक्तिबोधावश्यकता] येनान्विताभिधानं च पदानामभ्युपेयते। सुतरां तेन वक्तव्या व्यक्त्यन्ता पदतो मतिः ॥ न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम् । अन्वयोऽनन्वितानां च नाभिधानमिति स्थितिः॥ गङगायां घोष इत्यादौ यथा सामीप्यलक्षणा। नैवं गौः शुक्ल इत्यादौ गम्यते व्यक्तिलक्षणा ॥ प्रयोगप्रतिपत्तिभ्यां वृद्धेभ्योऽध्यवसीयते । तस्मात् गवादिशब्दानां तद्वानर्थ इति स्थितम् ॥ [जात्याकृतिव्यक्तिषु शक्तिवादोपसंहारः] तदिदमुक्तं सूत्रकृता-'व्याक्त्याकृतिजातयस्तु पदार्थः' (p. 47 ) इति । 'तु'शब्दो विशेषणार्थः। किं विशेष्यते ? गुणप्रधान भावस्या नियमेन शब्दार्थत्वम्। स्थितेऽपि तद्वतो वाच्यत्वे क्वचित्प्रयोगे जातेः प्राधान्यं, व्यक्तेरङगभावः-यथा 'गौर्न पदा स्प्रष्टव्या' इति सर्वगवीषु ___ * वाक्यव्यापारः नियोगः विध्यादिः। सः अङ्ग-विध्यन्तं विना न निण्पाद्य इति विध्यन्तविशिष्टस्यैव यथा आत्मलाभः, तथाऽत्रापि ॥ _1 उच्यते-क, अनवरत-खः । विशिष्यते-ख, भावस्य-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy