SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 62 न्यायमझरी प्रतिपत्तिविशेषसिद्धः। धर्म्यभिप्रायेण च संप्लवस्योक्तत्वात्। नैतावता सामान्यमाने निष्ठः शब्दो भवति ॥ । [शब्दस्य जातिमातृवाचकत्वानुपपत्तिः] अपि च निष्कृष्टसामान्यांशवचनत्वे पदस्येष्यमाणे गोशब्दात् गोत्वशब्दाच्च तुल्ये प्रतिपत्ती स्याताम् । 'गौः शुक्लः' इतिवच्च 'गोत्वं शुक्लं' इति बुद्धिः स्यात् । चातुर्वर्ष्यादिवच्च स्वार्थ एव गोशब्दात् भावप्रत्ययः त्वतलादिः स्यात् ॥ अथ मन्येथाः-आक्षिप्तव्यवितका जाति गोशब्दो वक्ति। भावप्रत्ययान्तस्तु निष्कृष्टस्वरूपमात्रनिष्ठामिति–तदनुपपन्नम् --अनाक्षिप्तव्यक्तिकाया जातेः कदाचिदप्यदर्शनात् || [गो-गोस्वपदयो(लक्षण्यम् ] , अथ गोशब्दश्रवणवेलायां व्यक्तिसंस्पर्श'वती' जातिरवगम्यते । भावप्रत्ययान्ते तु गोशब्दे श्रुते तच्छ्न्याऽसौ प्रतीयत इति - यद्यवं आगतोऽसि मदीयं पन्थानम्-'आश्रयवती चेज्जातिरुच्यते,शब्देन जात्याश्रय उक्त एव भवति। नान्यथा हि साश्रयवत्युक्ता स्यात् । तदाश्रय परिहारेणा श्रयिसामान्यमात्रविवक्षायां त्वतलादयः प्रयुज्यन्ते। • तथा चाहुः-*यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः, तदभिधाने त्वतलादयः' (म-भा-5-1-2-119) इति । 'गुणस्य हि भावात् द्रव्ये शब्द * गुणं-अप्रधान गुणजातिक्रियादिः। यादृशं प्रवृत्तिनिमित्तमादाय शब्द : प्रवृत्तः, तं भावप्रत्ययः अभिवत्त ।। आश्रयवत्युक्ता स्यात् तदाश्रय-क. 1 शून्या-क, घ, 3 साश्रयपरिहारेण-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy