________________
पञ्चममाह्निकम्
पदादपि तदायत्त सम्बन्धज्ञप्त्यपेक्षिणः। तत्रैव बुद्धिरित्येव न व्यक्तेरपि वाच्यता ॥
[प्रत्यक्षस्येव शब्दस्यापि विशिष्टनिष्ठत्वम् ] उच्यते-प्रत्यक्षे तावत् द्वयोरपि विशेषणविशेष्ययोः इन्द्रियविष. यत्वम् । सामान्येऽपि संयुक्तसमवायादिन्द्रियं प्रवर्तमानं विशेषणवत् विशेष्यमपि विषयीकरोति। न हि सामान्यं प्रत्यक्षं, विशेषोऽनुमेय इति व्यवहारः। एवं गुणमात्रग्राहिणीन्द्रिये गुणिनोऽनुमेयत्वं स्वात्। न चैवमस्ति। तस्माद्विशेष्यपर्यन्तं प्रत्यक्षम्। तथा पदमपि तत्तुल्यविषयं, न तु सामान्यमात्रनिष्ठमिति युक्तम् ॥
[व्यक्तिवाचकत्वे मानन्त्यादिपरिहारः] .. यत्तु-'सामान्याशानपोद्धृत्य पदं सर्व प्रवर्तते' (p. 56) इति--- तत् केवलव्यक्त्यभिधाने सति आनन्त्यव्यभिचारभयादुच्यते। तद्वदभिधाने तु तद्भयं नास्तीति न शुद्धजात्यभिध यितया शब्दः संकोचनीयः ।।
[ शब्दप्रत्यक्षयोवैलक्षण्योपपादनम् ] 'ननु ! न सर्वात्मना प्रत्यक्षतुल्यविषयः शब्दः, प्रतिपत्तिसाम्यप्रसंङगात् । न च शब्दात् इन्द्रियाच्च तुल्ये प्रतिपत्ती भवतः। तदुक्तं_ 'अन्यथैवाग्निसम्बन्धात् 'दाहं दग्धोऽभिमन्यते प्र.सं (p. 82) इत्यादि-उच्यते-पूर्वमेवैतत्परिहृतम् । सकलविशेषग्रहणाग्रहणाभ्यां
मेव प्रत्यक्ष सिद्धान्तेऽप्यङ्गीकुतम्-इत्याक्षेपाभिप्रायः । समाधानन्तु-तत्तु विशेषणज्ञानं निर्दिकल्पकं, अतीद्रियम् । सविकल्पके तु जातिविशिष्टमेव वस्तु इन्द्रियेण गृह्यति इति प्रत्यक्ष विशिष्टविषयकवेति ॥
__1 तदा बत्तु-ख.
अस्तीति-क.
न तु-ख. . ' दाहो दग्धोऽय-के.