SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 60 न्यायमञ्जरी न च सर्वस्त्रैलोक्यवर्ती व्यक्तिवातस्तद्वान् । किन्तु सामान्याश्रयः कश्चिदनुल्लिखितशाबलेयादिविशेषः तद्वानित्युच्यते । सामान्याश्रयत्वाच्च नानन्त्यव्यभिचारयोस्तत्रावसरः ।। [ व्यक्तिवाचकत्वेऽपि गौरवाभावः] न च विशेषण मनभिधाय' विशेष्यमभिदधाति शब्द इत्यभ्युप.. गच्छामः, येनैनमतिभारेण 'पीडयेमहि । सामान्याश्रयमात्रे सङकेतग्रहणात् तावन्मानं वदतः शब्दस्य कोऽतिभारः? एवं*-'तद्वतो नास्वतन्त्रत्वात्' इत्यादिदूषणं परिहृतं भवति ।। किंच प्रत्यक्षं न हि निष्कृष्टजात्यंशपरिवेष्टितम । तद्गोचरप्रवृत्तश्च शब्दस्तं कथयेत् कथम् ? तस्मात् प्रत्यक्षविषये प्रवर्तमानं तत्समानविषयमेव भवितुमर्हति पदम्, न सामान्यमात्रनिष्ठम् ।। [सामान्यविशेषयोः युगपद्ग्रहणाक्षेपः.] . युगपन्ननु संवित्तिः विशेषणविशेष्ययोः । प्रत्यक्षेऽपि न दृष्टव न च युष्माभिरिष्यते ॥ कार्यकारणभावो हि तद्धियोर्भवतां मते। तस्माद्विशेषणे जातौ पूर्वमिन्द्रियजा मतिः॥ * 'तद्वतो नास्वतन्त्रत्वादुपचारादसंभवात् । वृतिरूपस्य भिन्नत्वात् राज्ञि भृत्योपचारवत्' इति प्रमाणसमुच्चयस्य श्लोकः। शब्दः न जात्याश्रयवाचकः । तत्र हेतुः अस्वतन्त्रत्वादित्यादि ॥ विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वात् प्रथमं विशेषणमात्रविषयक: 1 मभिधाय-क. वदति-क. 'पीड्यमहि-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy