SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 59 पञ्चममाह्निकम् ___ श्येनव्यक्त्या चेत् सादृश्यमिष्टकाकूटस्य नास्ति, व्यक्त्यन्तरेण - व्यभिचारात् (p. 55); 'न तरा'ममूर्तया जात्या सादृश्यमाकाशेनेव "तस्या'वकल्पत इति स्पर्धोदाहरणमात्रमेतत् ॥ - [जात्याश्रयव्यक्तेः पदवाच्यत्ववर्णनम् ] अन्येषु तु प्रयोगेषु गां देहीत्येवमादिषु । तद्वतोऽर्थक्रियायोगात् तस्यैवाहुः पदार्थताम् ॥ पदं तद्वन्तमेवार्थ आंजस्येनाभिजल्पति । न च व्यवहिता बुद्धिः, न च *भारस्य गौरवम् ।। सामानाधिकरण्यादिव्यवहारोऽपि मुख्यया । वृत्त्योप पाद्यमानः सन् नान्यथा योजयिष्यते ।। तस्मात् तद्वानेव पदार्थः ।। . [जात्याश्रयनिरूपणम् ] ननु! कोऽयं तद्वान्नाम? तत् अस्यास्तीति तद्वान् इति विशेष एवं सामान्यवानुच्यते ।। - विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ। सामान्यं तु शब्दे नानुच्यमानं नोपलक्ष्यमाणं भवति। उभयाभिधाने च शब्दस्यातिभार इत्युक्तम् -- उच्यते-- नेदन्तानिर्दिश्यमानः शाबलेयादिविशेषः तद्वान् । * भारस्य–यः तादृशविशिष्टबोधनशक्तिमान् , तस्य कथं गौरवम् । अशक्तस्य तु गौरवम् ॥ 'नीलो घटः' इत्यादिसामानाधिकरण्यं शब्दस्य व्यक्तिवाचकत्व एव घटेत ॥ 1 नितरा-व. न तस्या-ख. हारस्य-क, प-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy