________________
58
- न्यायमञ्जरी प्रातिपदिकार्थसामान्यगतत्वेनैव विभक्त्या स्वार्थोऽभिधीयते, न लक्षितव्यक्तिवृत्तित्वेन ; यतोऽभिधानवैषम्यं स्यात् । स तु विभक्त्यर्थो जातौ साक्षादसंभवन् *कक्ष्यान्तरितो भविष्यति नैतत्-'आत्मनो' ज्ञानप्रयत्नादियोगित्वेन कारकत्वोपपत्तेः। जातेस्तु साक्षान्न मनागपि ज्यापारलेशसंस्पर्श इति स्वतो दुर्लभं तस्याः कारकत्वम् । अतः कथं तत्र विभक्त्यर्थान्वयः ?
[संख्यादेर्व्यक्तिगतत्वेनैव लोकानुभव:] यदन्वितं च सङख्यादि, तत्स्थत्वेन न कथ्यते । 'कथ्यते यद्गतत्वेन', न तत्तेन समन्वितम् ।। न च व्यवहितव्यक्तिप्रतीति मन्यते जनः । नान्यथाऽनुपपत्त्याऽपि क्रमसंवेदतं क्वचित् ।।
जनयन्ती च पश्यामः व्यक्ति जात्यनुरंजिताम् । सङख्यादि योगिनी चेति सा वै धत्ते पदर्थताम् ।।
. [आकृतेरपि शब्दवाच्यत्वम् ] . . जातेः कार्यान्वयः श्येनचितमित्यभ्यधायि यत् । तत्र संस्थाननिर्देशात् न जातेः काचिदङगता ।।
* कक्ष्या-व्यक्तिरूपा ॥ * अन्ततः पुरुषाधिष्ठानमन्तरा हि चक्षुः न पश्येत् ।। * पदैरितिशेषः । $ जनयन्ती–बोधयन्तीम् ॥
1 अजन्मनो-क,
" यत्स्थत्वेन तु कथ्येत-क,
योगिनी-ख.