SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पञ्चममाह्निकम् [ व्यक्तेः शब्दवाच्यत्व सिद्धान्तः ] अत्राभिधीयते न जाति: पदस्यार्थो भवितुमर्हति । पदं हि विभक्त्यन्तो वर्णसमुदायः, न प्रातिपदिकमात्रम् । तत्र च प्रकृतिप्रत्यया वितरेतरान्वितमर्थमभि' दधाते' इति स्थितम् । द्वितीयादिश्च विभक्तिः प्रातिपदिकादुच्चरन्ती प्रातिपदिकार्थगतत्वेन स्वार्थमाचष्टे । युगपच्च त्रितयं विभक्त्यर्थः - कारकं, लिङ्गं, सङख्या च । प्रातिपदिकार्थे जातावन्वेति । न जातिः कारकम् । पुंनपुंसकविभागः । न चास्या द्वित्वादियोग इति ॥ न चैतत्त्रितयं न च जातेः स्त्री [ लक्षणया न व्यक्तिबोधनिर्वाह । ] ननु ! व्यक्तिलक्षणया सर्वमुपपत्स्यते इत्युक्तम् न च युक्तमुक्तम् --- सकृत्प्रयुक्तं पदमंशेन केचिदर्थमभि' वदति' । ततोऽर्थान्तरं लक्षयति । तद्गतत्वेन पुनः लिङगसङल्याद्यभिधत्ते इति न प्रातीतिकोऽयं क्रमः 3 साक्षात्तदन्वितत्वेन कथ्यमानं त्वसङ्गतम् । तद्भवेदग्निना सिंचेत् इत्यादिविधि सन्निभम् ' ।। [ प्रत्ययार्थस्य द्वारकान्वयनिरासः ] ननु ! ' पुंसीव' सामान्ये 'कारकत्वं' भविष्यति (p 62)। ' कक्ष्या 'न्तरितमित्येषः युक्तो वैभक्तिकोऽन्वयः ।। बोधयेत्, न समग्र व्यक्तिम् । 'नील:' इत्युक्ते रूपमात्र, 'महान्' इत्युक्ते परिमाणमात्र बोध्यते । अतः न पदं व्यक्तिवाचकम् ॥ * अपितु पदश्रवणसमनन्तरमेव 'पशुना' इत्यादौ करणत्व पुंस्त्व - एकत्वविशिष्टा व्यक्तिरेवावगम्यत इति शेषः ॥ + जात्यन्वितस्वेन लिङ्गसंख्या दिबोधनमत्यन्तविरुद्धम् ॥ 1 धत्ते - ख. स्त्रीपुंस - - क) 2 लिड्डुसंख्ये चक • कथंनैव ख 57 7 3 दधति-ख व्यत्तय-ख. || * 4 मन्त्रितम् - क
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy