________________
56
न्यायमञ्जरी आत्मा तावत् सर्वकर्मस्वधिकृतः, कर्ता च । स चामूर्तत्वात् देहेन्द्रियद्वारेण औदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निवर्तयन् कर्ता तेषु भवति। एवं जातिरपि व्यक्तिवर्मना तन्निवर्तयन्ती साधना लप्स्यते ।।
[जात्यादीनां क्रियाङ्गत्वं सद्वारकम् ] अतश्च जातिरेवाङगं इति मीमांसका जगुः । ।
तस्याश्चेदं क्रियाङत्वं अन्यद्वारकमात्मवत् ।। एवं 'षड्देयाः' इति, 'अन्यं तद्वर्णमालभेत' ( p. 50 ) इति च । तद्वारकमेव योज्यम् । एतेनोपचयापचयसंघाताद्यपि 'व्याख्यातम् ।।
सम्बन्धग्रहणादिकार्य व जातिपक्ष एव सूपपादम् , आनन्त्यव्यभिः . चारादिचोद्यानवकाशात् ।। . .
[प्रत्यक्षम्य व्यक्तिविषयकत्वेऽपि न तत्र शब्दशक्त्यावश्यकता
यत्पुनरभ्यधायि (p. 53)-प्रत्यक्षविषये पदं वर्तते। न च प्रत्यक्षस्य सामान्यमानं विषय इति-रिहृतं तत् वातिककृता। प्रत्यक्षस्य हि चित्रात्मकं वस्तु विषयः ॥
'न च तत्तादृशं किंचित् शब्दः शक्नोति भाषितुम् । सामान्यांशानपोद्धृत्य पदं सर्वं प्रवर्तते'.
(श्लो. वा. आकृ: 62) इति ।। न हि नानाधर्मनिचय खचित चित्राकारवस्तुसमर्पणनिपुणमेकं* किमपि पदमुपपद्यते । न च तत्र सम्बन्धग्रहणं सुकरमिति सामान्यांशनिष्ठमेव पदं युक्तम् । तस्माज्जातिरेव शब्दार्थ इति ॥
* एकमिति-व्यक्तिस्तु अनेकधर्मविशिष्टा । पदं तु एकैकधर्मविशिष्टमेव
' इत्यन्तं-क. इत्यन्य-ख.
'वक्तव्यम्-ख.
रचित-ख.