________________
पञ्चममाह्निकम्
55 इतिवत् । *'कर्मण्यग्न्याख्यायाम्' (पा-सू-3-2-92) इति त्वभियुक्तस्मरणात् चयननिर्वर्त्यः श्येन इति शब्दार्थोऽवगम्यते। न च येनव्यक्तिः चयनेन निर्वर्तयितं पार्यते। 'अग्न्याख्यायां' इति हि स्मर्यते। न हीष्टकानिचयेन पतत्री अभिनिवर्तते। तदाकारस्त्वग्निरभिनिर्वय॑त इति अत्र जातेः क्रियाङगत्वं न व्यक्तः ।।
- [सादृश्यं जातिमूलकमेव, न व्यक्तिमूलकम् ] ____ ननु ! व्यक्त्या . सादृश्यं संपादयिष्यते न शक्यते संपादयितुम, व्यक्त्यन्तरवैसादृश्यस्यापि संभवात् । यो ह्येकया व्यक्त्या सदृशः, सोऽन्यविसद्शोऽपि भवति ।।
[ अमूर्तानामपि साधनत्वसंभवः] . यत्तु अमूर्ताया जाते क्रियाङगत्वमिति-नैष दोषः। अमूर्तानामपि गुणकर्मणां 'साधनभावोपपत्तेः'-'अरुगया क्रीणाति' 'अभिकामं जुहोति' इति। व्यक्त्वाक्षेपद्वारेण चालभनविशसनप्रोयोगचोदनासु साधनत्वं जातेरुपपत्स्यते ।।
लक्षितव्यक्तिसाध्यं तु तत्साध्यं कार्यमिष्यते । यथा भूतेन्द्रियोत्पाद्यं आत्मकर्तृकमुच्यते ।।
.
* कर्मणीत्यादि-अनेन अग्न्याधानस्थानवाचकात् चिञ्चयने इति धातोः क्विपू विहिता। श्येन इव चितः श्येनचित् इति दृष्टान्तः। तथा च 'श्येनचित्' इत्यत्र श्येनशब्दः श्येनसदृशे लाक्षणिकः । श्येनाकृतिकमग्न्याधानस्थानमित्यर्थः॥
पशुपदेन लक्षितया व्यक्त्या आलम्भनविशसनाद्युपपत्तिः, यथा हस्तेन कृते कायें 'पुरुषेण कृतं' इति, चक्षुरादौ पश्यति 'पुरुषः पश्यति' इति च व्यवहारः ॥
साधनतयोपपत्तः-ख.