________________
न्यायमञ्जरी विशेषणे विशेष्ये वा वर्तते । विशेष्ये वर्तमानो विशेषणे प्रमाणान्तरमपेक्षते। विशेषणे तु वर्तमानः तदवगमय्य, विशेष्य मप्याक्षिपतीति न कश्चिद्दोषः॥
[शब्दाब्यक्तिबोधानुभवः अन्यथासिद्धः] तदिदमात्मप्रत्यक्ष*, यत् शब्दे उच्चरिते व्यक्तिरवगम्यत इति। . "सा' किं शब्दात् , उत जातेः ? इति विवेको न प्रत्यक्षः। स युक्त्यावगम्यते। शब्दस्य द्वयाभिधाने यत्नगौरवात्, विरम्यव्यापारस्य चासंवेदानात, अन्तरेणापि च शब्द 'जात्यवगमे व्यक्तिप्रतीतिदर्शनात जातित एवैषा व्यक्तिप्रतीतिः ; जातिप्रतीतिश्च शब्दादिति निश्चीयते। भव- . द्भिरपि च विशेषणज्ञानपूर्विका विशेष्यावगरतिरङगीकृतैव । यथाऽऽह कणवतः–'समवायिनः श्दैत्याच्छवैत्यबुद्धेश्च श्वेते बुद्धिस्ते कार्यकारणभूते' (वै. सू. 8-1-9) इति ॥
[शब्दात् व्यक्तिबोधनयत्यं नास्ति ] यत्पुनरभिहितम्-आलंभनविशसनप्रोक्षणादिक्रियायोगात् व्यक्तिः शब्दार्थ इति तदप्यनैकान्तिकम्-जातावपि क्वचित् क्रियायोगदर्शनात्'श्येनचितं चिन्वीत' इति ||
__ [ध्यक्तेः कुत्रचित् क्रियान्वयायोगः ] ननु ! अत्रापि व्यक्तेरेव कार्याङगता, नामूर्ताया जातेः - मैवम् - न ह्यत्र श्येनः साधनत्वेन निर्दिश्यते पशुना यजेत'
__ * आत्मप्रत्यक्ष-स्वानुभवः। शब्दे श्रुते व्यतिबोधः न निहनूयते । कामनुभवसिद्धं, न कारणमित्यर्थः॥
शब्दं इत्यस्य व्यक्ति–इत्यादिना संबन्धः ।। .
1 वर्तेत-ख.
माक्षिपतीति-ख.
स-ख.
जात्यवगमात-ख.