________________
पञ्चममाह्निकम्
53 न शक्नोति वक्तं, अतिभारप्रसङगात् । न च व्यक्त्यवगतौ गतिरन्या नास्ति, यत इयन्तं शब्दे भारमारोपयेम। न हि वयं व्यक्तिप्रतिपति भवन्तमपनमहे। नापि भवन्ती जातिप्रतिपत्तिमपनमहे, उभयप्रतीतेः प्रत्यात्मवेदनीयत्वात्। उभयत्र चामिधात्री शक्तिरतिभारा शब्दस्य, अन्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धः। तत्र किं जातौ 'वर्तमानः शब्दः' व्यक्ति, आहोस्विद्व्यक्तौ वर्तमानः जातिमाक्षिपत्विति विचारणायां-*जाविशेषणत्वात्पूर्वतरं प्रतिपत्तिरिति सैव शब्दस्याओं • भवितुमर्हति । तस्यां च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्यतीति नोभयत्र शाब्दो व्यापारः ।।
. [गवादिपदानां दण्ड्यदिपदवैलक्षण्यम् ] ननु ! दण्डिशब्दादिव विशेषणं च जाति, विशेष्यां च व्यक्ति गोशब्दादेव प्रतिपत्स्यामहे । कोऽस्यातिभारः?
विषमोऽयं दृष्टान्तः। तत्र हि प्रकृतिप्रत्ययविभागेन द्वयप्रतीतिरवकल्पते। . दण्डशब्दः प्रकृतिविशेषगमभिवदति । मत्वर्थीयप्रत्ययश्च विशेष्यमिति । गोशब्दे तु नैष न्यायः संभवति । तत्र न विशेषणे दण्डिशब्दो वर्तते, न च विशेष्ये दण्डशब्दः । . इह तु गोशब्द एक एव
* जातेरित्यादि-इदमत्र तत्त्वं–प्रत्यक्षं व्यक्तिद्वारा जातिं गृह्णाति । शब्दस्तु जातिद्वारा व्यक्तिम् । तत्र प्रत्यक्षस्थले प्रापकान्तराभावात्, उभयत्रापि सन्निकर्षसत्वाच्च प्रत्यक्षमेव प्रमाणम् । शाब्दस्थले तु लक्षणायाः, अर्थापत्तेर्वा संभवात् न व्यक्तिबोधनव्यापारभारः शब्दस्योपरि निक्षेप्तुं युक्त इति जातिरेव पदार्थः, व्यक्तिस्तु वाक्यार्थः स्यात्कामम् । पदादनुपस्थितस्यापि शाब्दबोधे भानसंभवादिति । ..विशेषणेकेवले इति शेषः । इह त्वित्यादि । 'विशेष्यं नाभिधा गच्छेत् क्षीणशििवशेषणे' इतिवत् , 'विशेष्ये क्षीणशक्तिश्च नैव गच्छेद्विशेषणम्' इत्यपि तुल्यन्यायासमानमिति भावः ॥
1 वर्तमानः-ख.
शब्दार्थो-ख.