________________
भ्यायमञ्जरी . [जातेरनुगमकत्वमात्रान्न निर्वाहः ] ननु ! व्यक्त्यन्तरमपि व्यक्तिरेव । सोऽयं व्यक्तौ गोशब्दः प्रयुक्तः, न सामान्य-मैवम् –व्यक्तौ चेत् गोशब्दः प्रयुज्यते, कर्कादिव्यक्तावपि प्रयुज्यत। यत्र प्रयोगोऽस्य दृष्टः, तत्र प्रयुज्यत इति चेत्, अद्य जातायां गवि मा प्रयोजि, न हि तत्र प्रयोगोऽस्य दृष्ट इति। तस्मा. *दर्शनमकारणम् , प्रतिव्यक्ति तस्यासंभवात् ॥
. व्यक्तौ शब्दार्थे 'इयं वा गौः, इयं वा गौः' इति प्रतिपत्तिः स्यात् , नि तु 'इयमपि गौः' इति । भवति चैवं प्रतीतिः। न चायमविद्यमाननियन्तृक एव यदृच्छाशब्दप्रयोगः प्रवर्तत इति नियामकमस्य चिन्त्यम् ॥
गोत्वमेव नियामकमिति चेत् , आयुष्मन् ! साधु बुध्यसे। किन्तु तद्गोत्वमवगतमनवगतं वेति वक्तुमर्हसि। नानवगतम् , अतिप्रसङगात् । अवगतं चेत्, कुतस्तदवगच्छामः? शब्दात्, अन्यतो वा? नान्यतः; प्रमाणान्तरासन्निधानात् । शब्दाच्चेत, तहि शब्दः प्रथमतरं गोत्वे वर्तितुमर्हति, 'नागृहीतविशेषणा 'विशिष्टे' बुद्धिः' इति न्यायात् ॥
[जातेर्व्यक्तिविशेषणतया शब्दार्थत्वासंभवः.] .. ननु ! जाति विशेषणत्वेन, व्यक्ति च विश्येष्यत्वेन वक्ष्यति गोशब्दः
___ * दर्शनं—'यत्र प्रयोगोऽस्य दृष्टः' इत्यत्रोक्तं दर्शनम् । असंभवात्-जगति विद्यमानसर्वगवां केनापि द्रष्टुमशक्यत्वात् ॥
न त्वित्यादि। व्यक्तिद्वयानुगमिकायाः जातेइशब्दार्थत्वाभावात् । नियन्तृक:-नियामकः ॥
प्रथमतरं-गो.रुपस्थापनात्प्रागिति थावत् ॥
1 विशेष्ये-क.