________________
51
पञ्चममाह्निकम्
न व्यक्तिलक्षणाद्वारं इयत्कार्यं च युज्यते । वक्रः पन्था न गन्तव्यः प्रष्ठे' वहति वर्त्मनि ॥ *उपलक्षणमाश्रित्य जातिसम्बधवेदनम् । प्रसेत्स्यतीति नानन्त्य'व्यभिचारकृतो ज्वरः॥ किंच प्रत्यक्षविषये वृत्तिः पदस्येष्टा परैरपि । निष्कृष्टं न च सामान्यमानं प्रत्यक्षगोचरः॥ व्यक्तेरेव पदार्थत्वं तस्मादभ्युपगम्यताम् । तथाच बुद्धिस्तत्रैव श्रुतशब्दस्य जायते ॥
- [व्यक्तेश्शब्दार्थत्वे मीमांसकाक्षेपः] तदेतज्जैमिनीयैर्न क्षम्यते। तथाहि-व्यक्तिमात्रं वा शब्दार्थ इष्यते? ''विशिष्टा वा व्यक्तिः ? न तावत् व्यक्तिमात्रम् ; न हि यस्यां कस्योचिद्व्यक्तौ गोशब्दं वक्तारः प्रयुंजते। न च यां कांचियक्ति गोशब्दात् श्रोतारः प्रतिपद्यन्ते ॥
अथ गोत्वविशिष्ट व्यक्तिः शब्दार्थ इत्युच्यत, गोत्वमेव हि तहि गोशब्दार्थः, न व्यक्तिः। कथम् ? श्रूयताम-यदि हि व्यक्तिः शब्दार्थो भवेत् , 'व्यक्त्यन्तरेषु न प्रयुज्येत। अथ व्यक्त्यन्तरेऽपि प्रयुज्यते, सर्वव्यक्तिसाधारण स्तहि तस्यार्थः, न व्यक्तिः॥
* केवलव्यक्तेश्शब्दार्थत्वे आनन्त्यं व्यभिचारश्च दुर्वार इत्याशङ्कां परिहरतिउपलक्षणमित्यादिना ॥
+ विशिष्टा-जातिविशिष्टा ॥
नान्त्यस्य-क,
३ व्यक्तयन्तरे-ख,
1 स्पष्टे-क, 4 स्तस्यार्थ-ख.