________________
50
न्यायमञ्जरी [आकृतेश्शब्दार्थत्वं निरर्थकम् ] व्यक्तौ तावत् क्रियायोगः जातौ *सम्वन्धसौष्टवम् । नाकृतौ द्वयमप्येतत् इति तद्वाच्यता कुतः? जातिव्यक्त्योरतः कार्या वाच्यत्वे संप्रधारणा। तत्र व्यक्त्यभिधेयत्ववादिभिस्तावदुच्यते ॥
[व्यक्तेश्शब्दार्थत्वे सौलभ्यम् ] प्रयोगचोदनासामंजस्यात्। व्यक्तिः शब्दार्थः। आलंभनविशनप्रोक्षणादिचोदनाः जातौ न संगता भवन्ति। न हि जातिरालभ्यते विशस्यते, प्रोक्ष्यते वा॥
अपि च षट् देयाः, द्वादश देयाः, चतुर्विशतिर्देया इति न जातिः, षडादिसंख्याभियुज्यते ; अपि तु व्यक्तिः। तस्मात् सैव शब्दार्थः ॥
[जातेश्शब्दार्थत्वेऽनुपपत्तिः] . अपि च 'यदि पशुरुषाकृतः पलायत, अन्यं तद्वण तद्वयसमालभेत' इति यदि जातिः शब्दार्थः स्यात् , अन्यस्यालंभो नावकल्पेत, 'अन्यस्यानीय मानस्य पशुद्रव्यस्य सैव जातिः। तत्रान्यत्वसम्बन्धो व्यक्तेरवकल्पते, न जातेरित्यतोऽपि व्यक्तिः शब्दार्थः॥
[ज्यत्ते.इशब्दार्थत्वं स्वरसम् ] चयापचयसङघातस्वस्वामित्वादिकल्पनाः। यान्ति व्यक्त्यभिधंयत्वपक्षे झाडिति सङगतिम् ॥
* संबन्धः-शब्दार्थसंबन्धः। तत्र सौष्टवं अनुगमसोलभ्यम् ॥ + चोदनायास्सामञ्जस्यमेवानन्तरवाक्येषु वर्ण्यते ॥
1 अन्यस्यापनीय-ख.