________________
पञ्चममाह्निकम्
न नियतस्य शाबलेयसन्निवेशस्य गोशब्दो वाचकः, *तदभावेऽपि बाहुलेयसन्निवेशदर्शनात् । न च त्रैलोक्यान्तर्गतसकलगो पिण्डगत'सनिवेशवचनत्व भवगन्तुं शक्यम्, आनन्त्यात्। ततश्च नाकृतिः शब्दार्थः, तस्यां क्रियाऽनुपपत्तेः। न हि प्रेषणादिक्रियांसाधनं सन्निवेशः, अपि तु व्यक्तिः ॥
न च गामानयेत्युक्तः सयामपि तदाकृतौ। चित्र'प्रस्थमयं किंचित्' गामानयति बुद्धिमान् ॥
[आकृतेश्शब्दार्थस्वेऽतिप्रसङ्गः ] ननु ! जातिवाच्यत्वपक्षेऽपि गोत्वजातः सर्वगतत्वात् किमिति मृद्गवानयनं नानुष्ठीयते?—उच्यते-हस्ती तहि कथं नानीयते ? सर्वगतत्वाजातेः।। अथ सर्वत्रास्तित्वेऽपि व्यंजकव्यक्तिनियमेनापयतेहन्त! तहि सास्नादिमत्प्राणी गोत्वजातेरभिव्यंजकः, न मृद्गव इति नातिप्रसङगः। सन्निवेशस्य च तत्र भावात् तद्वाच्यत्ववादिनः नैनमतिप्रसङगमतिकामन्ति ॥
[शब्दानामाकृतिवाचकत्वे शुक्लादिशब्दसामानाधिकरण्यासंभवः ] - किंचाकृतिवचनत्वे गोशब्दस्य शुक्लादिगुणवाचिभिः पदान्तरः सामा नाधिकस्ण्यं न प्राप्नोति । न हि शुक्लादिगुणा आकृति वृत्तयः, अपि तु व्यक्तिवृत्तयः। 'तत्सामा'नाधिकरण्यादिबलवत्तया वरं व्यक्तिः शब्दार्थ इष्यताम् ॥
* तदभावेऽपिशाबलेयसनिवेशाभावेऽपि । अनेन व्यभिचारः प्रदर्शितः । समनन्तरवाक्येनानन्त्यं प्रदर्श्यते ॥
जातेः-गोत्वादिजातेः॥ * आकृतेरपि शौक्लयवत् व्यक्तिविशेषणत्वात् ॥
पिण्ड-ख. ' मनुगत-ख, ५ व्यक्तिः-क, मृत्स्नामयीं कश्चित्-ख, कि--ख, वृत्तयः-ख, ' तस्मात् सामा-क.