________________
48
न्यायमञ्जरी लोकोऽपि अवयवसन्निवेशामिलामाकृति व्यपदिशति-'यत्राकृतिस्तत्र गुणा वसन्ति' इति। तस्मादवयवसन्निवेश एव आकृतिरुच्यते ॥
तस्याश्च शब्दार्थतोपपद्यते, न वा? इति परीक्षाहत्वमस्त्येव, न जैमिनीयवदुपेक्षितुं *सा युक्तेति। तद्व्यक्त्याकृतिजातिसन्निधौ प्रयोगात् गोशब्दस्य कोऽर्थ इति विद्यार्यते ॥
[आकृतिशक्तिवादोपक्षेपः] तत्राकृतिवादिनस्तावदाहुः-प्रयोगप्रतिपत्तिभ्यां किल शब्दार्थनिश्चयः। वृद्धाः स्वार्थे तद्व्यवहरन्तः यस्मिन्नर्थे गोशब्दं प्रयुंजते, श्रोतारश्च यमर्थं ततः प्रतिपद्यन्ते, स तस्यार्थः॥
तत्र, यदि गोशब्दः केसरादिमति न प्रयुज्यते, सास्नादिमति च प्रयुज्यते, तदसाधारणसन्निवेश विषय एवावगम्यते । प्रत्यक्षविषये गौरित्यादिपदं प्रयुज्यते। प्रत्यक्षं चाकृतिविषयम्। अश्वपिण्डसन्निवेशाद्विलक्षणो हि गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते। तत्कृतमेव वस्तूनामितरेतरवैलक्षण्यम्। अतः प्रत्यक्षविषये पदं प्रवर्तमानं आकृतावेव वर्तितुमर्हति । प्रेषणादिक्रियायोगश्च व्यक्तिद्वारक आकृतेर्भविष्यतीति यदुक्तं -
[आकृतिशक्तिवादनिरासः ] तदयुक्तं प्रतिव्यक्ति भिन्नसंस्थानदर्शनात् । आनन्त्यव्यभिचाराभ्यां सम्बन्धज्ञप्त्यसंशवात् ॥
___ * सा-अवयवसन्निवेशविशेषात्मिका आकृतिः ।।
1 स्वार्थेन-ख,
'यदेव-घ,
तदुक्त-ख,