SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चममाह्निकम् अर्थप्राप्तिरतः सदर्थविषयज्ञान प्रबन्धोद्गता साक्षादेव मणिप्रभामणिमतिन्यायेन किं कथ्यते। प्रामाण्ये सविकल्पकस्य कथिते बाह्यार्थसिद्धिः स्थिता तव्यक्त्याकृतिजातिवाच्यकलने तावत्प्रवर्तामहे ॥ -इत जातिवादः [पदशक्तिः कुत्र] एवं सिद्धे 'बाह्येऽर्थे', निरस्तेषु तदपहारिषु तथागततस्करेषु अधुना विचार्यते' गोशब्दः किमाकृतेर्वाचकः? 'उत व्यक्तेः? अथ जातेः ? इति ॥ . [आकृतिपदस्यार्थः ] ___ तत्राकृतिपदेनेह संस्थानमभिधीयते। *सूत्रे पृथगुपादानात् न जातिजैमिनीयवत् ॥ ... जैमिनिहिं 'आकृतिस्तु क्रियार्थत्वात्' (जै. सू. 9-3-33) इत्याकृति जातिमुपदिशति । भाष्यकारोऽपि 'सास्नादिविशिष्टाऽऽकृतिरिति ब्रूमः' (शा. भा. 1-155) इति ब्रुवाणः तथैव व्यवहरति। वार्तिककृताऽपि व्याख्यातम् (श्लो. वा. 1-1-5, आकृति-वाद 3) 'जातिमेवाकृति प्राहुः व्यक्तिराक्रियते। यया। सामान्यं तच्च पिण्डानां एकबुद्धिनिबन्धनम्' इति ॥ [जात्याकृत्योर्मेंदः] इह तु 'व्यक्त्याकृतिजातयस्तु पदार्थः' (गौ. सू. 2-2-68) इति सूत्र'कारः पृथगा कृति जातेरवोचदिति संस्थानमेवाकृति मन्यते । * सूत्रे—'व्यत्याकृतिजातायस्तु पदार्थः' इत्यत्र ॥ * 'आक्रियते-निरूप्यत इत्यर्थः' इति न्यायरत्नाकरः । _1 प्रबन्धाद्गता-क, प्रबन्धाहता-घ, * अथ जातेः-ख. 'कारो जाते:-ख. बाझो-ख, विद्यते-क-घ, कृतिवचो वदति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy