SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 45 पञ्चममाहिकम् [विकल्पे सामान्यविषययकत्वमावश्यकम् ] सजातीयविजातियव्यावृत्त्योर्न च भिन्नता। यतोऽन्यतरसंस्पर्शो 'विकल्पे न प्रकल्पते ॥ सजातीयविजातीयव्यावृत्त्यवमर्श तु दर्शनवदसाधारणग्राहिण एव विकल्पाः स्युरिति सामान्यनिबन्धनसंबन्धग्रहणादिव्यवदाराभावात् शब्दा. नुमाने *प्रलयं प्रतिपद्येयाताम् ॥ . अपोहस्य बाह्यत्वमान्तरत्वं वाऽऽवश्यकम् ] व्यावृत्तिरपि बाह्या चेत् ; तदवस्था कौमारिलदूषणाशनिः। आन्तरत्वे तु न तया विकल्पोपरागः कर्तुं शक्यः। नान्तः, न बहिरिति तु भिणितिभङगीमात्रम् ॥ [ व्यावृत्तेर्वस्तुत्वमावश्यकम् ] .. 'तत्तादृशं किंचित् ? न किंचिद्वा? न किंचिच्चेत् न- तेन विकल्पा नामनुरंजनस्योपपादयितुमशक्यत्वात्। अत्यन्तमसतश्च खरविषाणादेः व्यवहारविषयत्वाभावात्, असत्ख्यातिनिरसननीतिमेवात्रोत्तरं करिष्यामः॥ किचिच्चे , नूनमन्तः, बहिर्वा तेन भवितव्यमेव । अतः कुमारिला- दिष्टदूषणापनिनीषया योऽयमुत्प्रेक्षितः पन्था नूतनः-सोऽपि सङकटः । तस्मात् यथाऽध्यवसाय मेव तत्त्वमिति युक्तम् ॥ * प्रलयमित्यादि-अतः व्यावृत्त्यपेक्षयाऽधिकस्य सामान्यस्य विकल्पविष यत्वमावश्यकम् ॥ भणितिभङगीमात्रं-तृतीयप्रकाराभावात् । *तेन-तुच्छेन ॥ 1 विकल्पानां-क, व्यावृत्तविमर्श-ख, मेवमिति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy