SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 44 . न्यायमञ्जरी [अपोहस्य बाह्यान्तरोभयरूपत्वाभावनिरासः] यत्पुनर्विद्यते नान्तः न बहिः, तेन रज्यते । विज्ञानमिति (p. 23) मायैषा महती धूर्तनिर्मिता ॥ विषया एव बुद्धीनां ओजस्येनोपरंजकाः । वासनाविषयज्ञानजन्यत्वान्न तथोदिताः॥ [सामान्यस्य वस्तुत्वमावश्यकम् ] तस्मात् तत्र देशान्तरादौ *वसता केनचिदर्थेन बुद्धयो रज्यन्ताम् ! एकान्तासता तु केनचिदारोपितेन तदुपरंजनमघटमानं मनोरथप्रायम्। न चैकान्तासन्नाकार आरोपयितुमपि शक्यते ॥ ___ [विकल्पाना वस्तुसंस्पर्शित्वम् ] अपि च दर्शनपृष्ठभाविनो विकल्पाः तद्व्यापारकारिणः, व्यावृत्तं स्प्रष्टुमसमर्था व्यावृत्तिमात्रमवलम्बन्त इति यदुच्यते-तत्र 'दृश्यस्य सजातीयविजातीय व्यावृत्तत्वात् 'उभयव्यावृत्तिरस्तीति, तां स्पृशन्तो विकल्पाः कथं विजातीयव्यावृत्तिमेव स्पृशेयुः ?? उभयावमर्श सत्येषां पौनरुक्त्यादानर्थक्यमिति चेत्नानर्थक्यम्प्रमाणवर्गे 'निपतन्तः काममनर्थका भवन्तु, अर्थान्तरं वाऽऽलम्बन्ताम्! व्यावृत्ति त्ववलम्बमाना अंशतो नेति नं श्रद्दध्महे ॥ * वसता-इत्यनेन वस्तुत्वं सामान्यस्योच्यते ॥ तां-व्यावृत्तिम् ॥ काममित्यादि-स्वकारणानुरोधि प्रमाणम्, न प्रयोजनानुरोधि ॥ उभयेऽपि व्यावृत्ति. 1 दृश्यस्य सजातीय-क, दृश्यसजातीयविजातीय-ख, मेव स्पृशेयुः-ख, ३ निपतति-क,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy