SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 43 पञ्चममाहिकम् *विचित्रसहकार्यादिशक्तिभेदश्च धर्मिणः। नानोपाध्युपकाराङगशक्त्यभिन्नात्मता कुतः ? [प्रामाण्यं न प्रयोजनाधीनम् ] यदि च नाम निर्विकल्पकेन सर्वात्मना परिच्छिन्नं वस्तु पुनः परिच्छिन्दन्ति विकल्पान्तराणि वैफल्यमश्नवीरन , किमेतावता तेषामप्रती यमानार्थग्राहिता कल्पयितुं शक्यते? न हि विरतपिपासस्य हिमकर . पटलमफलमिति, तदेव रजतमिति कल्पयितुं पार्यताम्। तस्मात दुराशामात्रमेतत्॥ . इत्थं चान्यापोह निषेधात्मनि बाह्ये विकल्पानां शब्दानां च विषय इष्यमाणे भट्टकुमारिलोपन्यस्तदुस्तर दूषणासारवारणकारणं न हि किंचिदुत्पश्यामः॥ । [विकल्पानामारोपितविषयकत्वनिरासः] ..' यदपि तद्रूषणापनिनीषया विकल्पप्रतिबिम्बकमारोपिताकारमात्रव्यावृत्तिच्छायोपरक्तं किमपि परिकल्पितं (p. 32)-तदपि न व्यवहार पदवीमवतरितुमुत्सहते ॥ विकल्पो नाम बोधात्मा स च स्वच्छः स्वभावतः। 'नासा'वितरसंपर्कादृते कलुषतामियात् ॥ नूनमभ्युपगन्तव्यं किंचिदस्योपरंजकम् । आन्तरं वासनारूपं बाह्यं वा विषयात्मकम् ।। - - * सर्वधर्मविशिष्टं वस्तु युगपदेव कुतो न गृह्यत इत्यत्राह-विचित्रेत्यादि । + रजतेन प्रयोजनलाभात् रजतमिति इत्युच्यते ।। 1 श्लोकवार्तिके अपोहवाद इति शेषः॥ ___1 निरात्मनि-ख, ३ राना-क. 'दूषणानामुद्भरणकरण-ख, दूषणानां न वारणकरण-ग,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy