________________
42 ।
न्यायमञ्जरी _ [ एकाकारावमर्शहेतुत्वादपि विकल्पैक्यं दुर्वचम् ]
अपि च रे मूढ ! सामान्यानभ्युपगमे कुतस्त्य एकाकारविकल्पोत्पादः ? इति पर्यनुयुक्तेन त्वया, यदि विकल्पैक्यादित्युच्यते-तदेतरेतराश्रयं भवति – कार्यक्याच्च विकल्पैक्यं, विकल्पैक्याच्च कार्यक्य मिति ।।
विकल्पैक्यं कार्येक्यमिति तु सुतरां*, अनन्तरं विकल्पैक्यं विकल्पैक्या'देवेत्युक्तं भवति । कथं चैवमनुन्मतो ब्रूयात् ! तस्मात् -
'एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी' ति व्यामूढभाषितम् ।।
__ [विकल्पानामपूर्वविषयकत्वाभावेऽपि प्रामाण्यम् ] यदपि विकल्पानां शब्दानां चान्यापोहविषयत्वसिद्धये प्रलपितम् 'एकस्यार्थस्वभावस्य' इत्यादि (p. 13) तदपि यत्किचिदेतत्
सर्वात्मना हि दृष्टोऽर्थः पुनर्न हि न दृश्यते ! प्रदर्शितं हि प्रामाण्यं गृहीतग्राहिणामपि ।। क्षणभङगे निरस्ते च देशकालादिभेदतः। . गृहितस्यापि भावस्य ग्रहणं न न युज्यते ॥ .
[विकल्पानामपूर्वविषयकत्वसंभवः ] अपि चास्मन्मते भिन्नैः धयुक्तस्य धर्मिणः । 'धर्मोऽस्य केन चित्कश्चित् प्रत्ययेन ग्रहीष्यते ॥
* कार्यमिति विकल्प एवोच्यते यदि, आत्माश्रयः ॥
___1 कायॆक्यादिकल्पैक्या-ख,
धर्मस्य-क'