SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 41 पञ्चममाह्निकम् [ज्ञानव्यक्तीनां भेदादेकत्वमप्यसंभवि] ब्रूयात् - विकल्पोल्लिख्यमानाकार भेदानवगमाद्विकल्पानामैक्यम् । यादृश एव एकशाबलेयादिस्वलक्षणदर्शनान्तरभुवाऽपि विकल्पेनोल्लिखित आकारः गौरिति, तादृश एव गोपिण्डान्तर'दर्शनान्तर जन्मनापीति "विषया भेदात्तदैक्यमुच्यते । तदुल्लिख्यमाने हि विषये भेदो न प्रति भालते इत्यत एष विकल्पो भिन्नान्यपि दर्शनानि मिश्रीकरोति, 'दर्शनोपा रूढस्य' भेदस्याग्रहणादिति तदेतदपि न हृदयंगममभिधीयते। विकल्पास्तावद्विज्ञान क्षणस्वभावत्वादन्योन्यं *भिन्ना एव भवन्ति ।। . [ज्ञानस्य तदकारस्य च भेदः, उताभेदः ?] यस्तु विकल्पोल्लिखित आकारोऽनुपलभ्यमानभेदः, 'स तेभ्यो' • व्यतिरिक्तः? अव्यतिरिक्तो वा? व्यतिरिक्तश्चेत्, सामान्यमेवेद नामान्तरेणोक्तं भवति । अवास्तवत्वकृतो विशेष इति चेत्-न-अवास्त वत्वे युक्त्यभावात् ।। अव्यतिरिक्तश्चेत् स आकारः, तहि विकल्पस्वरूपवद्भिद्यत एवेति कथं तदैक्यम् ? कथं वा तदैक्येन भिन्नानामपि दर्शनानां मिश्रीकरणमव कल्पते ?. * एक एव घटः कालभेदेन यदा द्विवारं ज्ञानेन विषयीक्रयते, तदा विषयस्यैक्येऽपि ज्ञानव्यक्तिमेदः अनिवार्य एव । एवं सति नानाघटविषयकनानाज्ञानानामप्येकत्वं ज्ञानत्वाख्यानुगतजातिमन्तरा कथं व संस्थेत ? विशेषः ज्ञानस्वरूपादिति शेषः ॥ ___1 दर्शनानन्तर-घ, विषय-क, १ बोधो-क, 'दर्शनापोहं च-के, लक्षग-क, आकारोप-क, 'तेभ्यो -ख..
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy