________________
न्यायमञ्जरी वैतथ्यस्थितिः प्रत्ययानाम् । तत्र सत्तादौ सामान्यान्तरविरहान्मिथ्या प्रत्ययाः, उपाधिना केन चित्प्रवर्तन्ते, न त्वेवं गवादाविति यत्किञ्चिदेतत्। 'तदुक्तम् (श्लो-वा-1-1-5-आकृ-24)
_ 'तस्मादेकस्य भिन्नेबु या वृत्तिस्तन्निबन्धनः । सामान्यराब्दस्तत्तादौ * एकधीकरणेन वा' इति ।।
[अनुगतबुद्दीनामौपाधिकत्वासंभवः ] ननु! इहाप्येक र्थक्रियाक रित्तोपाधिनिबन्धन एकाकारप्रत्ययः सेत्स्यतीत्वतम् (p. 11)-सत्यमुक्तम्-अयुक्तं तु, एकार्थक्रियाकारि.. त्वस्यैवासिद्धेः ॥
[प्रतीतीनां सादृश्यमपि सामान्याधीनम् ] यत्तूक्तं___ 'एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी' (p. 12)
इति तदप्यसांप्रतम् ; प्रत्यवमर्शस्याप्यकत्वानुपपत्तेः। न हि बहुभिर्दर्शनैरेको विकल्पः संभूय साध्यते, अपि तु नानादर्शनानन्तरं तत्सामर्थ्यलब्धजन्मानो विकल्पा अपि भेदेनैवोल्लसन्ति । न च तेषां किमपि कार्यान्तरमस्ति, येन ते एकतामधिगच्छेयुः ।।
केन च विकल्पानामेकत्वं गृह्यते ? न दर्शनेन, तस्य दृश्यविषयत्वात्। न विकल्पान्तरेण, सर्व विकल्पाना मारोपितार्थपर्यवसितत्वेन, स्वाकारविषयत्वेन वा परस्परभेदाभेदपरिच्छेदसामर्थ्यासंभवात् ।।
* एकधीकरणं-अनुगतप्रतीत्युत्पादनम् ॥
* असिद्धेः-न हि सर्वासां सजातीयानां व्यक्तीनां समानका कारित्व प्रत्यक्ष. सिद्धम् ॥
*विकल्पा हि शिरूपाः, न दृश्याः । विकल्पविषयकविकल्पान्तराङ्गीकारेऽपि विकल्पानामसद्विषयत्वेन नार्थनिश्चायकत्वम् ॥
1 यदुक्तम्- क,
विषयत्वात्-क,
विकल्पिताना-ख.