________________
39 पञ्चममाह्निकम् एवमनुयुज्येमहि ; कार्यस्याप्यन्यथासिद्धेः किं तत्कल्पनयेति । प्रत्यक्षे तु सामान्य कोऽयमनुयोगः? ____ का चेयमनुवृत्तिज्ञानोत्पादिका *शक्तिः ? विशेषेभ्योऽव्यतिरिक्ता; व्यतिरिक्ता वा? नित्या; अनित्या वा? इति विकल्प्यमाना वाचोयुक्त्य न्तरेण जातिरेव कथिता भवति, न वा किंचिदिति यत्किचिदेतत् ।।
__[व्यक्तिग्रहणवेलायामेव जातेरपि ग्रहणमावश्यकम् ] - ननु! यथा गोत्वादिजातिः ।नियतास्वेव व्यक्तिषु वर्तते, नासामं• जस्येन, तथा काभिश्चिदेव व्यक्तिभिः काचिद्गवादिबुद्धिर्जन्यते इतिनैतदेवम्-विषयातिशयव्यतिरेकेण प्रत्ययातिशयानुपपत्तेः । उपायाति. शये तु प्रत्ययातिशयकारिणीष्यमाणे विषयातिशयं प्रति को द्वेषः? सिद्धे च विषयातिशये दुरपह्नवं सामान्यम् ।। - [गवादिप्रत्ययानां सेनावनादिप्रत्ययवेलक्षण्यम् ] .. · ननु 'च! अनुवृत्तिबुद्धिः विनाऽपि सामान्यान्तरेण सामान्यान्तरेषु दृश्यत एवेति (p. 10) कोऽत्र विस्रभः? उच्यते-न चाशेषेण पंचाशद्भवितुमर्हति । यदि हि "सेनावनादि प्रत्ययाः करितुरगधवखदि. रादिव्यतिरिक्तमर्थमनपेक्ष्य जायमाना मिथ्या भवन्ति, किमतावता घटादि प्रत्ययैरपि मिथ्याभवितव्यम् । बाधक सदसद्भावनिबन्धना हि वैतथ्या __ * शक्तिः,-व्यक्तिचिति शेषः ॥
न हि सर्वत्र जातिव्यवहारो दृश्यते। अतः जातिमन्तरापि व्यवहारो .. . “निर्वहत्येवेत्याक्षेपाशयः। व्यवहारोऽन्यः, ग्रहणमन्यत् । यथापेक्ष हि व्यवहारः ।
यथावस्तु च ग्रहणम् । जातेग्रहण तु वर्तत एव पूर्वमपि। अन्यथा प्रतीत्यवैलक्षण्यप्रसङ्गेन सर्वसाङ्कयं स्यादिति समाधानस्याशयः॥
* उपायातिशयः-सन्निकर्षादिः ॥
६ सेनावनादिप्रत्ययाः किलापेक्षिकाः, न नियतविषया वा । गोघटादिप्रत्ययास्तु नैवमित्यर्थः । अन्यथा सविकल्पदृष्टान्तेन निर्विकल्पमप्यप्रमाणं स्यात् ॥
1 वृत्तिः-ख. संभावनादि-क. सद्भावनिबन्धनं हि वैतथ्य-ख.