________________
38
न्यायमञ्जरी [वस्तूनां स्वरूपस्वभावविशेषाः प्रश्नातीताः] कथमेतदितीदं च 'ये वा पर्यनुयुंजते । इदमप्यपरं, हन्त !" तेन पर्यनुयुज्यताम् ।। वृषः पिशङगो गौः कृष्णा सा च नीलतृणाशिनी । ताश्यामुत्पादितो वत्सः कथं भवति पाण्डरः ? यथा रूपादि सम्बद्धा 'सा व्यक्तिरुपलभ्यते । .. तथैव जातियुक्तेति का ते व्यसनसन्ततिः ? अगोव्यावृत्ततायां वा नैष प्रश्नो निवर्तते ।। *कस्मादगोनिवृत्तं तत् अद्य' जातं स्वलक्षणम् ।। तस्माद्वस्तु स्वभावस्य विदित्वाऽननुयोज्यताम् ।
चोद्यचुन्चुत्वमुत्सृज्य प्रतिपत्तिनिरूप्यताम् ।। प्रतिपत्तिश्च विशेषेष्विव सामान्येषु च निरपवादा दर्शितैव । तस्मात् विशेषवत् अप्रत्याख्येयं सामान्यम् ।।
[ व्यक्तिभिरेवानुवृत्तिज्ञानानिर्वाहः ] 'तत्रैतत्स्यात्-विशेषात्मन एव वस्तुनः सामान्यज्ञानजननशक्तियुक्तत्वात् किं सामान्यकल्पनयेति–तदयुक्तम्-विशेषवत्' प्रत्यक्षत्वात् सामान्यस्य कः कल्पनार्थः ? यदि हि कार्यानुमेयं सामान्यं कल्पयेम, तत
* अद्य जातमपि स्वलक्षण वस्तु गवादि, कस्मात्कारणात् स्वेतरसकलवस्त्वात्मकं न जातं, किन्तु सकलव्यावृत्तमेव । प्रथमं व्यक्तिरुत्पद्यते, अनन्तरमेव इतरव्यावृत्तिर्भवतीति न हि वक्तुं शक्यम् , उत्पत्तिकाले तस्या व्यक्तेः सर्वात्मकत्व प्रसङ्गात् । अत: उत्पद्यमानमेव वस्तु इतरव्यावृत्त्यात्मकधर्मविशिष्टमेव जायत इत्येव तक्तव्यम् । अतः सर्वमुभयोस्समानमेव ।।
सामान्यज्ञानं--अनुवृ त्तत्वज्ञानम् ॥
____ 1 यो वा पर्यनुयुज्यते-ख, * इतरस्य परं हेतु :-ख, संबन्धात्-ध; * न-ख, तदन्य-घ, . ' स्वभावस्य-क, विशेषवत्-ख.