________________
37
पञ्चममाह्निकम्
[जातेस्सर्वगतत्वेऽपि न सर्वत्र सर्वदा तत्प्रतीतिः ] अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम् । तस्मात् सकृदभिव्यक्ता नान्यदाऽपि प्रतीयते ।। अभिव्यक्तिश्च तद्देशा यद्देशा व्यक्तिरीक्ष्यते । तस्मात्तस्मादभिव्यक्ता न देशेऽन्यत्र दृश्यते ।। व्यक्तिसर्वगतत्वेऽपि स्वयूथ्यैः कैश्चिदाश्रिते । भविष्यत्यद्य जातायां गवि गोधीस्तथा ग्रहात् ।। जायमानैव हि व्यक्तिः जायते *प्रतियोगिनी । एक एव हि कालोऽस्याः 'जातेः सम्बन्धजन्मनोः ।। नेह जातेः पुरोऽस्तित्वं न च संक्रान्तिरन्यतः । किन्तु स्वहेतोः सा व्यक्तिः तादृश्येवोपजायते ।।
'न सर्वसायम् , न वा सर्वपलब्प्रिसङ्गः। किन्तु तत्तपिण्ड एव तत्तजातेरुपलब्धिः। वस्तुतस्तु- आत्मनां द्रव्यत्वेन परिमाणस्यावश्यकत्वात् विभुत्वरूप परिमाणस्य सर्वगतत्वपर्यायस्य संभवः । जातेस्तु अद्यत्वेन न तादृशस्यापि सर्वगतत्वस्य संभवः। अद्रव्यत्वादेव जाती वृत्तिप्रश्न एव न घटते। तथा परिमा प्रश्नश्च । निरवयवद्रव्याण्यपि 'अवृत्तिपदार्थाः' इत्युच्यन्ते । द्रव्येष्वेव एवत्वे रूपादीनां गुणानां परिमाणादिप्रश्न; यथा न युज्यते, तथैव अद्रव्यायाः जातेरपि। अतश्च, यथा पटे शौक्लयं दीर्घ वा, हस्वं वा ? इत्यादिप्रभाः इव सर्वेऽपि बालिशप्रश्नाः । तर्हि कथं एते ज्ञेयाः, व्यवहर्तव्याश्च इति चेत्-यथेदानीमपि ज्ञायन्ते, व्यवह्रियन्ते च तथैवेति गृह्यताम् । न हि लोके कस्यापि जातिज्ञानमेव नास्ति, न वा न जातिव्यवहारः। किन्तु व्यवहारविषयभूता जातिः किंरूपा ? किंलक्षणा ? अतिरिक्ता, अनतिरिक्ता वा इति विचार्यते । न तु व्यवहार एव निहनूयते । अतश्च यथानुभवं व्यवहियताम् । अन्यत्र कुत्राप्यदृष्टावपि पावकौडण्यवत् तत्तद्वस्तुस्वभावा धर्मिग्राहकप्रमाणसिद्धा अपर्यनुयोज्याः, यथानुभवं अङ्गीकार्या इति सोपः । अयमर्थः समनन्तरश्लोकेषु स्पष्टः॥ ___ * प्रतियोगिनी-जात्या संबद्वैव ॥
1 जाति-क,घ.