________________
36
न्यायमञ्जरी [जातिव्यक्त्योस्सम्बन्धस्य विलक्षणत्वम् ] *ये चेह वृत्ती स्रक्सूत्रभूत कण्ठ गुणादिषु ।
जात्यादीना मलंशत्वात् ताभ्यां वृत्तिविलक्षणा॥ तस्मात् वृत्त्यनुपपत्तेरित्यदूषणम् ॥
. [जातेराश्रयविकल्पानुपपत्तिपरिहारः]
यदपि सर्वगतत्वं पिण्डगतत्वं च विकल्प्य दूषितम् (p. 8b) तदपि ' यत्किञ्चित् । यथा प्रतीतिरादिशति भगवती, तथा वयमभ्युपगच्छामः ॥ .
सर्वसर्वगता जातिरिति तावदपेयते । सर्वत्राग्रहणं तस्याः व्यंज कव्यक्त्यसन्निधेः ॥ व्यक्तिव्यंजकतामेति जातेर्दष्टयैव नान्यथा। दृष्टिर्यत्र यदा व्यक्तेः तदा तत्रैव तन्मतिः॥ सर्वत्र विद्यते जातिः न तु सर्वत्र दृश्यते। , तदभिव्यंजिका यत्र व्यक्तिस्तत्रैव दृश्यते ॥ .
जातेस्सर्वसर्वगतत्वे प्रमाणम्] . व्यक्तेरन्यत्र सत्त्वे 'ऽस्य कि प्रमाणं? तदुच्यते । इहाप्यानीयमानायां गवि गोत्वोपलम्भनम् ।। गोपिण्डेन सहैतस्याः न चागमनसंभवः । देहेनेवात्मनस्तस्मात् इहाष्यस्तित्वमिष्यताम् ।।
-
-
मन्तरा न समवायसंभवः । अस्तु तर्हि तयोरस्वरूपमेव संबन्धः, असंबद्धत्वापेक्षया. ऽस्य वरत्वादिति चेत् , एवमुक्त्या यदि तृप्यसि, उच्यतां कामम् , न नोहानिरिति ।।
* सक्सूत्रकण्ठयोः, द्रव्यगुणयोश्च यादृशी वृत्तिः, तद्विलक्षणैव जातिव्यक्त्योः ।
* देहेनेवेत्यादि-आत्मानो हि विभवः । अथापि तत्तदेहावच्छेदेनैव तस्य तस्य 'अहं' इत्यनुभव:, सुखदुःखाद्यनुभवश्च । एवमेव सर्वजातीनां सर्वत्र सत्त्वेऽपि
1 कण्ठे-क-ग, ३ मनीशत्वात-क-ग, 3 मप्युप-ख, ' स्यात्-क, ख, घ.