SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 35 पञ्चममाह्निकम् [सामान्यविषयक वृत्ति'व्यवहारप्रदर्शनम् ] किनामधेयैषा वृत्तिरिति चेत्, *न नामधेयं अस्या जानीमः । पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे ॥ [समवायस्य दुरपह्नवत्वम् ] नन ! अयुतसिद्धयोः सम्बन्धः समवायः। स च विप्रतिषेधादेव निरस्तः (p 8 )-न शक्यते निरसितुम्. प्रतीतिभेदाढ़ेदोऽस्ति देशभेदस्तु नेष्यते। तेनात्र कल्प्यते वृत्तिः समवायः स उच्यते ॥ . अवयवावयविनोः, गुणगुगिनोश्चेयमेव वृत्तिः। तयोरन्तरत्वमुपरिष्टाद्दर्शयिष्यते। दर्शितं च अमुनैव मार्गेण देशभेदश्च तयोर्नास्तीति विस्पष्टमयुतसिद्धत्वम् ॥ [जातिव्यक्त्योस्सम्बन्धोपपादनम् ] :यदप्युच्यते ( p.-8a). नानिष्पन्नस्य सम्बन्धः, निष्पत्तौ युतसिद्धता' इति तदपि परिहृतमाचार्यैः । 'जातं च सम्बद्धं चेत्येकः कालः' इति वद्धिः । सर्व चैतदबाधितप्रतीतिबलात् कल्प्यते, न स्वशास्त्रपरिभाषया । . . [विभुद्वयसम्बन्धासम्भवः ] विभूनामपि सम्बन्धः परस्परमसंभवादेव नेष्यते, न 'स्वशास्त्र परिभाषणात्। न संयोगः, तेषामप्राप्तेरभावात् । अप्राप्तिपूर्विका हि प्राप्तिः संयोगः। न समवायः, तदाश्रितस्य तस्यानुपलंभादित्यलं प्रसङगेन ! * न नामधेयमित्यादिरुपहासः॥ । व्योमशिवः इति चक्रधरः ॥ तदाश्रितस्य-विभुद्वयाश्रितस्य । उभयोरपि द्रव्यत्वेन अवयावयविभाव 1 परिभाषगात-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy