________________
34
न्यायमञ्जरी [ भावत् न वस्तूनामुभयात्मकत्वम् ] 'व्यक्तिव्यतिरिक्तैव जातिः व्यक्तिषु वर्तत इति ब्रुमः ॥
यच्च वृत्तिविकल्पादिदूषणं तत्र वणितम् । तत् प्रत्यक्षमहिम्नैव सर्व प्रतिहतं भवेत् ॥
[विशेषातिरिक्तसामान्यग्रहणसम्भवः ] यत्तावदवादि-भेदेन कुवलयामलकादिवत् अनवभासनादिति-तत्र प्रतीतिभेदो दर्शित (p. 7) एव ॥
[सामान्यविशेषयोस्समानदेशत्वं नान्यतरापलापकम् ] यत्तु देशभेदेनाग्रहणात्, तदग्रहे तध्यभावादिति' (p.7) तत्र तदा . श्रितत्वं कारणं जातेः, न त्वसत्त्वम् । व्यक्तिवृत्तित्वाजातेः पृथरदेशतयाऽनुपलम्भः, 'तदग्रहे तदग्रहो' वा ; न पुनस्तदतिरिक्ताया अभावादेवेति* ॥
[ जाते...त्यनुपपत्तिपरिहारः], यदप्युक्तं(p. 7) वृत्त्यनुपपत्तेरिति, तत्राप्युच्यते-प्रतिपिण्डएकात्न्येन जातिवर्तत इति। पिण्डान्सरे तदुप सम्भो न स्यादिति चेत्, किं कुर्मः ? कमुपलभामहे ? पिण्डान्तरेऽपि तदुपलम्भोऽस्त्येव। कथं च भवन्तमेनं निह्लमहे ? एकदेशास्तु जातेन सन्त्येव, यैरस्यो वर्तनं ब्रूमः॥
'क्वेदमन्यत्र दृष्टं चेत्, अहो निपुणता तव ! दृष्टान्तं याचसे 'यस्त्वं प्रत्यक्षेऽप्यनुमानवत् ॥
* अन्यथा समानदेशत्वात् किं सामान्यं निषिध्यते, उत विशेषः ? इति विनिगमकाभावात् न त्वदिष्टसिद्धिः ॥ .
भवन्तं-उत्पद्यमान, उपलंभमिति शेषः । गोत्वं हि प्रतिपिण्डं समग्रमेव दृश्यते, न तुलेशतः॥
1 व्यतिरिक्तैव-ख, * क्वेदमन्यत्र चेत्-ख
भवादितः-क-घ, तदग्रहो-क.ख.प; । यस्यात्पक्षेप्रत्यनुमानवत्-क-ग यस्त्वं प्रत्यनुमानवत्-ख.