________________
33
पञ्चममाह्निकम्
[एकत्र सामान्यविशेषयोल्मावेशे विरोधाभावः ] , यदप्यभिहितम्-इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नोपपद्यत इति तदपि न सम्यक् ।।
परस्परविरोधोऽपि नास्तीह *तदवेदनात् ।
एकबाधेन नान्यत्र धीः शुक्तिरजतादिवत् ।। यत्र हि विरोधो भवति, तत्रैकतररूपोपमर्देन रूपान्तरमुपलभ्यते । प्रकृते तु नैवमिति को विरोधार्थः ? . छायातपावपि यद्येकत्रं दृश्यते, कि केन विरुद्धमभिधीयेत? अदर्शनात्तु तद्विरुद्धमुक्तम् । न चैवमिहादर्शनमित्यविरोधः ।। . . [सामान्यविशेषयोस्सत्यत्वम् ]
अत एवेह मिथ्यात्वं एति नान्यतरा मतिः ।
न ह्यन्योन्योपमर्दैन बुद्धिद्वितयसंभवः ।। तथा चाह-(श्लो. वा. 1-1-5, आकृतिवादे, श्लो. 57)
'यथा कल्माषवर्णस्य यथेष्ट वर्ण निश्चयः । चित्रत्वात्, वस्तुनोऽप्येवं भेदाभेदानधारणा' इति ।। इत्येवमविरोधेन भेदाभेदावधारणात ।
उभयात्मकतैवास्तु दस्तूनां भपक्षवत् ।। एतत्तु वृत्तिविकल्पादिभ्यः बिभ्यतेवाभ्य परतं तत्रभवतेति तिष्ठतु तावत् , किमत्र विमर्दैन!
.... सामान्यमेव सत्यं, व्यावृत्तं मिथ्येति वेदान्त्येकदेशिनः । व्यावृत्तमेव सत्य सामान्य मिथ्येति वैभाषिकादयः। उभयं मिथ्येति शून्यवादिनः । उभयं सत्यमिति सिद्धान्तिनः। इदमेव 'यो ब्रूतः' इत्यनुपदमुक्तम् ॥ . * तदवेदनात्-विरोधासंवेदनात् ॥ + 'अस्तु' इत्यभ्युपगमवादसूचकम् । इदमुत्तरत्र स्पष्टम् ॥ तत्रभवता-कुमारिलेन । वृत्तिविक पादिरनुपदं परिहियते ॥
1 एव हि-ख,
निग्रहः ग.
3