________________
696
न्यायमञ्जरी अत्रोच्यते-निरर्थके सर्वेण सर्वार्थशून्यता; इह तु भवन्नप्यर्थो नाव. गम्यते, द्रुततरो'च्चारणादिव्यतिकरवशादिति कथमविशेषः । तत्र च कल्प्यते नूनमसामर्थ्यमा त्मीय मावरीतुमनाः एवमभिधत्ते-न हि समर्थो विद्वान् विस्पष्टं न वक्तीति ॥
[विरमिधाननियमे विशेषः] त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः, किन्तु वास्तुस्थित्यु पनत एव। यतः सकृत् , द्विरप्यभिहितमप्यनवधानादिना न गृहीतामति संभाव्यते। त्रिस्तु यदुक्तं न ज्ञायते, तत्र वक्तुरेव जाडयम्। अनेक प्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्येत। सवरनवगमात्तु वक्तैव निगृह्यते। चतुर्धा पंचधा वाऽभिधाने त्विष्यमाणे निरवधिताऽ. भिधानस्य प्रसज्यत इति युक्तस्त्रिवचननियम इति ॥
[अपार्थम्] पौर्वापांदियागादप्रतिसंबद्धार्थमपार्थकम् ॥५-२-१० ॥
पूर्वापरासङगतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति। तद्यथा-दशदाडिमानि षडपूपा कुण्डमजाजिनं पललपिण्डः कुमार्याश्चैत्रस्य पिता प्रतिशीन इति ॥
[धर्मकी-क्षेपः, समाधान ध] अत्राह-अप्रति संबद्धवदेवासंबद्धवाक्यं, असंबद्धप्रकरणं च निग्रहस्थानान्तरं कस्मान्नोक्तम् ? एतेनैव गतार्थत्वादिति चेत् , यद्येवमनर्थ
* सभ्यया रीत्या, भाषया च व्यवहरेदिति यावत् । स्वयमतिप्रौढपण्डित. स्यापि लोकोत्तीर्णप्रज्ञस्यापि व्यवहारक्रमातिलखनं पराजयहेतुः॥ .
1 तो-ख,
'स्थित-च.
' स्य्य
द्धत-ख,
'अ-ख,घ,ज,