________________
द्वादशमाह्निकम्
697 केनैव गतार्थत्वादपार्थकमपि पृथङन वक्तव्यम्-अत्रोच्यते-निरर्थके न पदार्थः, न वाक्यार्थः; केवलं वर्णा एव शुष्का उच्चार्यन्ते। अर्थान्तरेऽपि सनन्वितपदार्थे व्यवस्थापितवाक्यार्थमनुषकृतं तूच्यते । इह तु पदार्थसंप्रत्ययेऽपि तदन्वयासंभवेन वाक्यार्थानवसाय इति स्पष्टो भेदः॥
प्रकृतविवादास्पदीभूते स्तुनि को वा विशेष इति चेत्*-उक्तमत्र --संक्षेपविवक्षायां द्वे एव निग्रहस्थाने। असंकीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्दम्। प्रकृतवस्तुसिद्धिस्तु द्वाविशतावपि तुल्यैव ।।
यत्तु असंबद्ध वाक्यं, असंबद्धप्रकरणं च पृथगुपसंख्येयमिति-तन्न'अप्रति संबधपदार्थेनैव तत्संग्रहात् । यदि त्वसंबद्धवाक्यमसंबद्धप्रकरणं चावश्यं वक्तव्यम, तद्युक्तमेव भवदीयं शास्त्रम्। तथा हि वैभाषिकाणामस्ति बाह्योऽर्थः, स च प्रत्यक्षः। सौत्रान्तिकानां च सन्नप्य सावनुसेयः। योगाचाराणां साकारं ज्ञानमेव, न बाह्योऽर्थः, स च प्रत्यक्षः। माध्यमिकानां आकारशन्यं स्वच्छं ज्ञान मात्रमे व-इत्येवमितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम्। आह च--
दशदाडिमवाक्यस्य बौद्धशास्त्रस्थ चेदृशः। अन्यस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते ॥
... * वर्णोच्चारणं वा, पदोच्चारणं वा, वाक्यप्रयोगो वा-भवतु, सर्वत्र अर्थ. राहित्यं समानमेव किल ॥
+ यद्यपि 'माध्यमिका: सर्वशून्यवदिनः' इति सर्वत्र सिद्धिः। परन्त्विदमेव प्रामाणिकं वचः। प्रज्ञापारमितादौ हि शून्यस्यापि अनिर्वचनीयतत्त्वरूपत्वं स्पष्टं प्रतिपादितम् । तर्हि विज्ञानवादशून्यवादयोः को विशेष इति चेत्, उक्तमत्रैव 'योगाचाराणां साकार ज्ञानम्, माध्यमिकानां तु आकारशून्यं स्वच्छं ज्ञानम्' इति । तथा च योगाचारैः ज्ञाने कल्पितो वा आकारः अङ्गीक्रियते, माध्यमिकैस्तु सोऽपि नाङ्गीक्रियते इति । परिकल्पितस्वभावं, परिनि पन्नस्वभावं, परतन्त्रस्वभाव चेति
भ-ख, घ, च,
मे-ख.