________________
द्वादशमाह्निकम्
695 काममर्थशून्यमपि कथयन्तः नोन्मत्ता भवितुमर्हन्ति । एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता ॥
यच्योक्तं-ईदृशां गणने का परिनिष्ठेति-तत् परिहृतमसकृत् असङकीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति ॥ - कपोलवादनादीनि पुनः अकथास्वभावत्वादचिन्त्यान्येव । यस्य चास्मिन कथाप्रसङगे गण्डवादित्रादि चेतसि स्फुरति, तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलं 'कश्मल गोष्ठ्येति ||
[अविज्ञातार्थम् ] पर्षप्रतिवादिभ्यां त्रिराभिहितमप्यविज्ञातमविज्ञातार्थम्
॥५-२-९॥ यत् साधनवार्य, दूषणवाक्यं वा त्रिरभिहितं पर्षदा प्रतिवादिना न विज्ञायते क्लिष्टशब्द प्रयोगम् , अप्रसिद्धप्र योगम् , अतिद्रु'तो'च्चरितमिन्येवंप्रकारमविज्ञातार्थ नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय च धूर्तंरिदमाश्रीयते ॥
[निरर्थकाविज्ञातार्थयोर्विशेषः]. अत्राह-अर्थासंप्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद्धदः। अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति, तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेत् ; न तु विदुषः वक्तुं विवदतः पराजयो भवितुमर्हति ॥
किंकृतश्चैष त्रिरुच्चारणनियमः? कि राजाज्ञया, उत स्वाक्येन ? इति न विद्मः॥
* किन्तु भ्रान्ताः। भ्रान्तिः, उन्मादश्च नाविशेषः ॥
1 असंबद्ध-ख.
प्र-ख,
' तीब्रो-ख,