________________
द्वादशमाह्निकम्
669 रज्ञानभावाभावयोरपि प्रत्यक्षत्वादपर्यनुयोगोऽयं 'अनुपलब्धेर'नुपलम्भा, दावरणमस्ति शब्दस्य' इति। तस्मात् प्रागुच्चार णाद सन्नेव शब्द इति सिद्धम् ।।
__ [अनित्यसमः ] साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङगादनित्यसमः
॥५.१.३३ ॥ सर्वभावानित्यत्वप्रसङगेन प्रत्यवस्थानम्-अनित्यसमः प्रतिषेधः । अनित्येन घटेन साधर्म्यमस्ति शब्दस्येति 'यदि त ग्यानित्यत्वमुच्यते, तहि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः॥
अविशेषसमैवेयं जातिरिति चेत्–'न-तत्र हि सत्ताभियोगात् सर्वभावानामविशेष आपादितः, इह तु घटसाधादेवानित्यत्वमापाद्यत इति । उद्भावनभडिगभेदाच्च जातिनानात्वमित्यसकृदुक्तम् ॥
अत्रीत्तरम्साधादप्यसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात्
.. ॥ ५.१.३४ ॥ अतिप्रसङगमापादयतो ह्येतद्विवक्षितं भवति' - घटसाधाद. सिद्धिरनित्यत्वस्येति । यदि च घटसाधादनित्यत्वस्यासिद्धिः, तर्हि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवा'क्य'साधर्म्यात् । अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्यवाक्येन साधर्म्य प्रतिज्ञाद्यवयव. योगित्वमिति ॥
___ * अन्ततः वाक्यत्वम् अस्ति साधर्म्यम् ॥
1 भावा-च, णम-च. 'त-ख, 'दितं-ख, 'त-ख, 'क्यस्य-च.
'त-ख, 'यो-ख,