________________
668
न्यायमञ्जरी अस्योत्तरम्अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ॥ ५.१.३१ ॥
'आवरणानुपलब्धिर्नास्ति, अनुपलब्धेः' इति योऽयं हेतुरुक्तः, स न हेतुः। 'कुतः ? अनुपलम्भस्वभावत्वादनुपलब्धः-उपलम्भप्रतिषेधा"त्मकत्वादित्यर्थः। अस्तित्वनास्तित्वे हि भावानां उपलम्मानुपलम्भाभ्यामवस्थाप्यते यदुपलभ्यते तदस्ति, शशवत् ; यन्नोपलभ्यते तन्नास्ति, तद्विषाणवत्। नोपलभ्यते च शब्दस्यावरणं, मूलोदकादेरिव मृत्तिकाइत्यनुपलम्मानास्तीति गम्यते। अनुपलम्भो ह्ययमावरणविषयः, नानु. पलब्धिविषयः स आवरणस्यैव नास्तितामवंगमयति, नानुपलब्धेरिति अनुपलब्धेर्भावादावरणमेव नास्तीति ॥
[ अनुपलब्धेरनुपलंभासंभवः] . ज्ञानविकल्पानां च भावाभावसेवेदनादध्यात्मम्
॥ १-१-३२॥ ज्ञानविकल्पा:-प्रतीतिप्रकाराः। तेषां भावाभावौ 'प्रतिप्राणिसंवेद्यौ भवतः। 'अस्ति मे ज्ञानम्' इत्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति । सा चेयमावरणानुपलब्धिः उपलब्धिवदध्यात्म* संवेद्यते, 'नोपलभे शब्दस्यावरणं, मृदमिव मूलोदकादेः' इति। तदेवं बाह्यपदार्थभावाभाववत् आन्त
* अध्यात्म-मानसानुभवः। मनो हि सुखादिभावग्राहकमिवाभावग्राहक. मपि भवति ॥
1 अ-ख,
2 र्थ-ख,
' भावं-ख,
'प्रा-ख,
बम्-ख.